________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥८॥
000000000000000000000
मिए ॥ ५॥ व्याख्या-एवममुना प्रकारेणानेन दृष्टांतेन मिए इति मृगो मूखोऽविवेकी शीलं सम्यगाचारं त्यक्त्वा दुःशीले दुष्टाचारे रमते, अत्र शोलशब्दो विनयाचारसूचकः, केन दृष्टांतेन तदाह-यथा शूकरः कणकुंडकं तंडुलभक्ष्यभृतं भाजनं त्यक्त्वा विष्टां भुंक्ते तथा शीलं त्यक्त्वा मूर्खः कुशीलमादत्ते, दुःशीलस्य विष्टोपमा, मूर्खस्य शूकरोपमा, शीलस्य तंडुलभृतभाजनोपमा. ॥५॥
॥ मूलम् ॥-सुणिया भावं साणस्स। सूयरस्त नरस्स य ॥ विणए ठविज अप्पाणं । इच्छंतो हियमप्पणो ॥ ६॥ व्याख्या-आत्मनो हितमिच्छन् पुरुष आत्मानं विनये स्थापयेत्, किं कृत्वा ? शुनः कुर्कुरस्य, च पुनः शूकरस्या नरस्याभावमशुभं भावं दृष्टांतं निंद्यमुपमानं, 'सुणिया' इति श्रुत्वा पूर्वगाथायां शुनी पूतिकर्णीति स्त्रीलिंगनिर्देशः कृतः, इदानीं शुन इति लिंगव्यत्ययःप्राकृतत्वात्. ॥६॥
॥मूलम् ॥ तम्हा विणयमेसिजा । सीलं पडिलभेजए ॥ बुद्धपुते नियागढी । न निक्कसिजइ कण्हुइ ॥७॥ व्यख्या-तस्मात्कारणात् बुद्धपुत्रो बुद्धानामाचार्याणां पुत्र इव पुत्रो बुद्धपुत्रः, आचार्याणां शिष्यः पुनर्नियोगो मोक्षस्तमर्थयतीति नियोगार्थी. एतादृशः साधर्विनयमे
000000000000000000
For Private And Personal Use Only