________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
CA-ACAN
॥१९८७॥
KKAKKAKK
3 से वियाहिए ॥२॥ व्याख्या-जीवाश्चेतनालक्षणात्मकाः, च पुनरजीवा अचेतनात्मकाः, चकार 8| एवकारश्च पदपूरणे. एष लोको व्याख्यातस्तीर्थकरैरुक्तः, अजीवदेश आकाशमलोको व्याख्यातः.
अजीवस्य धर्मास्तिकायादिकस्य देशोंशोऽजीवदेशो धर्मास्तिकायादिवृत्तिरहितस्याकाशस्यैव देशः सोडलोको व्याख्यातः, जीवाजीवानामाधेयभूतानां लोकाकाशमाधारभूतं, अतो लोकाकाशलक्षणमुक्तं. ॥२॥ जीवाजीवविभक्तिर्यथा स्यात्तथाह
॥ मूलम् ॥-दवओ खित्तओ चेव । कालओ भावओ तहा ॥ परुवणा तेसिं भवे । जीवाणमजीवाण य ॥३॥ व्याख्या-द्रव्यतो द्रव्यमाश्रित्येदं द्रव्यमियद्भेदं, क्षेत्रत इदं द्रव्यमेतावति क्षेत्र स्थितं, कालत इदं द्रव्यमियत्कालस्थितिमद्वर्तते, भावतोऽस्य द्रव्यस्येयंतः पर्यायः. एवं तेषां जीवद्रव्याणामजीवद्रव्याणां च द्रव्यक्षेत्रकालभावेन चतुर्धा प्ररूपणा भवेत. ॥३॥ अथ तावदजीवद्रव्यप्ररूपणायाः स्वल्पत्वादजीवद्रव्यस्यैव प्ररूपणा कथ्यते
॥ मूलम् ॥ रूविणो य अरूबी य । अजीवा दुविहा भवे ॥ अरूबी दसहा वुत्ता । रूविणोवि
॥११८७
For Private And Personal Use Only