________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
१११६९॥
॥ मूलम् ॥-जा किण्हाए ठिई खलु। उक्कोसा सा उ समयमज्झहिया ॥ जहन्नेण नीलाए। पलियमसंखं च उक्कोसा ॥ ४९ ॥ व्याख्या-या कृष्णायाः कृष्णलेश्यायाः खलु इति निश्चयेनोस्कृष्टा स्थितिरुक्ता, सैव स्थितिः समयाभ्यधिका समयेनैकेनाभ्पधिका समयाभ्यधिका जघन्येन ज्ञेया. च पुनलायाः पल्योपमासंख्येयभाग उत्कृष्टा स्थितिर्भवति. परमयमेव विशेषः-अयं यः पल्यो-14 पमासंख्येयो भागो वर्तते, स बृहत्तरो भागो ज्ञेयः ।। ४९॥
॥ मूलम् । -जा नीलाए ठिइ खलु । उक्कोसा सा उ समयमज्झहिया ॥ जहन्नेणं काऊए। पलियमसंख च उक्कोसा ॥५०॥ व्याख्या-खलु निश्चयेन या नीलाया उत्कृष्टा स्थितिरुक्ता, सा पुनः समयाभ्यधिका जघन्येन कापोतायाः कापोतलेश्यायाः स्थितिज्ञेया. च पुनः कापोतलेश्यायाः पल्यो. पमासंख्येयो भाग उत्कृष्टा स्थितिर्भवति. परमयमपि पल्योपमासंख्येयो भागो बृहत्तमो ज्ञेयः. इत्यनेन भवनपतिव्यंतराणामेव तावदायुषां लेश्यात्रयं दर्शितं. ॥ ५० ॥ इत्थं निकायनयस्याद्यलेश्यात्रयमुक्त्वा चतुर्निकायस्य भाविनी तेजोलेश्यास्थितिमाह
॥११६९॥
For Private And Personal Use Only