________________
Shri Mahavir Jain Aradhana Kendra
Acharya Se Kailassagersuri Gyarmandie
उत्तरा
सटोर्क
॥११५०॥
AAKAAREKARGES
पुष्पं, एतैः सदृशी. पुनः क्षीरपूरसमप्रभा दुग्धपूरसदृशवर्णा. पुना रजतहाराभ्यां संकाशा, रजतं जातीयरूप्यं, हारो मुक्ताहारस्ताभ्यां सदृशीत्यर्थः. ॥९॥ अथ षण्णां लेश्यानां रसमाह
॥ मूलम् ॥-जह कडुयतुंबगरसो । निंबरसो कडुयरोहिणिरसो वा ॥ एत्तोवि अणंतगुणो । रसो उ किण्हाए नायवो ॥ १०॥ व्याख्या-कृष्णायाः कृष्णलेश्याया ईदृशो रसो ज्ञातव्यः. ईदृशः | कीदृशः? यथा यादृशः कटुकतुंबकरसस्तथा निंबस्य रसस्तथा कटुकरोहिणीरसः. कटुका चासौरोहिणी |च कटुकरोहिणी, तस्या रसः कटुकरोहिणीरसः.रोहिणी वनस्पतिविशेषः, एतेभ्योऽप्यनंतगुणोऽनंतसंख्यराशिना गुणितो रसः कृष्णलेश्याया भवतीत्यर्थः ॥ १० ॥ अथ नीललेश्याया रसमाह
॥ मूलम् ॥-जह तिकडुयस्स रसो। तिक्खो जह हस्थिपिप्पलीए वा ॥ एत्तोवि अणंतगुणो । रसो उ नीलाए नायवो ॥ ११ ॥ व्याख्या-नीलाया नीललेश्याया ईदृशो रसो ज्ञातव्यः, यथा याहशस्त्रिकटुकस्य त्रयाणां कटूनां समाहारस्त्रिकटु, त्रिकटुवेव त्रिकटुकं, सुंठीमरिचपिप्पलात्मकं, तस्य रसो याहक् तीक्ष्णो भवति. पुनर्यथा होस्तपिप्पल्या गजपिप्पल्या वा रसो यादृशो भवति, इतोऽप्ये
॥११५०॥
For Private And Personal Use Only