________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्सरा
॥११०५॥
तापयति, पीडयति. कीदृशः स बालः? अतगुरु आत्मार्थपरायणः, पुनः कीदृशो बालः ? क्लिष्टोP सटीक रागायुपहतचित्तः॥ ॥ ६६ ॥
॥मूलम् ।।-रसाणुराएण परिग्गहेण । उप्पायणे रक्षणसंनिओगे ॥ वए वियोगे य कहिं सुहं से। संभोगकाले य अतत्तलाभे॥ ६७॥ व्याख्या-रसानुरक्तस्य जीवस्थ रसानुरागेण, अथवा रसानुरागे सति वा परिग्रहेण रसयुक्तद्रव्याणां मूर्छया, तथा रसयुक्तद्रव्याणामुत्पादने, तथा तेषां रक्षणे, तथा तेषां द्रव्याणां संनियोगे स्वपरेषां प्रयोजने, तथा व्यये रसद्रव्याणां न्यूनत्वे, तथा वियोगे विरहे, तस्य रसानुरक्तस्य कुतः सुखं भवति ? कस्मादपि कारणात्सुखं न भवति. संभोगकाले च रसास्वादनकालेऽप्यतृप्तिलाभोऽपि दुःखमसंतुष्टिरेव दुःखमेव. ॥ ६७ ॥
॥ मूलम् ॥–रसे अतत्ते य परिग्गडंमि। सत्तोवसत्तो न उवेइ तुाह ॥ अतुठिदोसेण दुही परस्स। लोभाबिले आययई अदत्तं ॥६८॥व्याख्या-रसेतृप्तो जीवः परिग्रहे सक्तोभवति. ततश्च सक्तः
११०५॥ सन्नुपसक्तो भवति, सक्तोपसक्तश्च तुष्टि नोपैति; अतुष्टिदोषेण दुःखी पुमान् परस्यादत्तं सरसं
SC-KAKANCCORICAL
For Private And Personal Use Only