________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersari Gyanmandi
उत्तरा- || रागाद् दुःखलाभप्रकारेणैव, तथा जीवोऽमनोज्ञे रूपे प्रद्वेषं गतः सन् प्रद्वेषपरंपरातः प्रदुष्टचित्तः || सटोक
संस्तत्कष्टकर्म चिनोत्युपार्जयति. 'जं' इति यत्कर्म 'से' इति तस्य दुष्टचित्तस्य विपाके कर्मानुभ॥१०८९॥
वकाले, इह परत्र च दुःखं दुःखदायि भवति. ॥ ३३ ॥ रागद्वेषोद्धरणगुणमाह
॥ मूलम् ॥-रूवे विरत्तो मणुओ विसोगो । एएण दुक्खोहपरंपरेण ॥न लिप्पई भवमज्झे वसंतो । जलेण वा पुक्खरिणीपलासं ॥ ३४ ॥ व्याख्या-रूपे विरक्तो मनुष्यो मनोज्ञरूपे रागमकुर्वन्नेतया दुःखोघपरंपरया पूर्वोक्तया दुःखसमूहश्रेण्या भवमध्ये वसन्नपि न लिप्यते, रागजनितदुःखावलिप्तो न स्यादित्यर्थः. कीदृशः स पुमान् ? विशोको विगतशोकः. केन किमिव ? जलेन पुष्करिणोपलाशमिव, यथा पद्मिनीपत्रं जले तिष्टदपि जलेन नावलिप्यते, एवं विरक्तोऽपि संसारे वसन्नपि संसारदुःखैन लिप्यते. ॥ ३४ ॥ एवं चक्षुरिंद्रियमाश्रित्य त्रयोदश गाथा व्याख्याताः, अथ शेषद्रियाणां मनसश्च त्रयोदशत्रयोदश गाथा व्याख्येयाः संति. अत्र चेंद्रियाणां चक्षुषो दोषबाहुल्यप्रादुर्भावात्पूर्व चक्षु
पा34॥१०८९॥ रिंद्रियद्वारेण रागद्वेषौ दर्शितौ, अन्यथा तु दुर्दमनं रसनेंद्रियमुक्तमस्ति. ॥ ३४ ॥ अथ श्रोत्रमा
MANCIACANCHASCIENCORICACANCY
For Private And Personal Use Only