________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| सटोक
उत्तरा
5 मायामृषां वक्ति, तत्रापि मृषाभाषणेऽपि दुःखान्न विमुच्यते. स लोभी दुःखस्य भागेव स्यादित्यर्थः.
॥ ३०॥ दुःखयुक्तत्वमेव प्रकटयति५१०८७॥
॥ मूलम् ॥-मोसस्स पच्छाय पुरच्छओ य । पओगकाले य दुही दुरंते ॥ एवं अदत्ताणि समाययंतो। रुवे अतत्तो दुहिओ अणिस्सो ॥ ३१ ॥व्याख्या-'मोसस्स मृषावाक्यस्य पश्चात्पुर| तश्च प्रयोगकाले च कालत्रयेऽपि सुरूपवस्तुलोभाददत्तग्राहकः पुमान् दुःखी भवतीति शेषः. सुरूपवस्तुलोभाददत्तग्राहकः पुमानित्यपि कर्तृपदं प्रस्तावाद् ग्रह्यते. कोऽर्थः? पूर्वं हि लोभान्मृषाभाषणं कुरुते, मृषाभाषणस्य पश्चान्मृषावचनमुक्त्वा पश्चात्पश्चात्तापं कुरुते, मनसि जानाति मया मृषोक्तं,
मा ज्ञास्यत्यसौ वस्तुस्वामीति. तथा पुरतश्च मृषाभाषणात्पूर्वमपि दुःखी भवति. मयासी सुरूपवस्तु६ स्वामी केन प्रकारेण वंचनीय इति. पुनः प्रयोगकाले मृषाजल्पनकालेऽपि दुःखी भवति, मनस्येवं
जानाति, मा कदाचिन्मम मृषावचनमसौ जानात्वपि. कीदृशः स पुरुषः? दुरंतो दुष्टोंतः पर्यवसानं यस्य स दुरंतः. इह लोके विटंबनातः, परभवे च दुर्गतिदुःखाद् दुष्टावसान इत्यर्थः. एवममुना प्रका
LA-CARNERALAR
॥१०८७॥
For Private And Personal Use Only