________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ॐ तत्सद्ब्रह्मणे नमः ।
अमृतबिन्दूपनिषत् ।
शंकरानन्दविरचितदीपिकासमेता ।
ॐ भद्रं कर्णेभिः । ॐ स्वस्ति न इ. ॐ शान्तिः शान्तिः शान्तिः ।
व्याख्यास्येऽमृतबिन्द्राख्यां तत्त्वोपनिषदं पराम् ।
अमृतेशस्तया देवः प्रीयतां परमेश्वरः ॥ ब्रह्मात्मैक्यविज्ञानादशेषानर्थनिवृत्तिरानन्दात्मावाप्तिश्चेति सर्वोपनिषदां सिद्धान्तः । ब्रह्मज्ञानं च श्रवणादिना मनःसहकृतेन मनश्च मत्तद्विरदव(निग्रहं मनुनानामतस्तदेव प्रथमत आह
मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च ॥
अशुद्धं कामसंकल्पं शुद्धं कामविवर्जितम् ॥ १॥ मनोऽन्तःकरणमनेकवृत्तिमविविधं द्विप्रकारं प्रोक्तं प्रकर्षेण कथितं विद्वद्भिः । तस्य द्वैविध्यमाह-शुद्धं चाशुद्धमेव च । स्वभावतोऽशुद्धमेव पुराकृतैरगण्यपुण्यैराधुनिकैब्रह्मचर्यादिसाधनानुष्ठानैश्च शुद्धम् । चकारौ व्यामिश्रमूढत्वाद्यवस्थामाहतुः । इदानीमशुद्ध शुद्धं चेति पदे व्याकर्तुमाह-अशुद्धं व्याख्येयमिदम् । व्याकरोति । कामसंकल्पम् । कामो विषयमात्राभिलाषस्तस्मिन्संकल्पस्तदधिकरणत्वं यस्मात्तत्कामसंकल्पं साभिलाषमित्यर्थः । शुद्धं व्याख्येयमिदम् । कामविवर्जितमभिलाषमात्ररहितम् ॥ १ ॥ नन्वस्त्वेवं द्वधा मनस्तथाऽप्यशुद्धत्वे को दोषः शुद्धत्वे च को लाभ इत्यत आह
मन एव मनुष्याणां कारणं बन्धमोक्षयोः ॥
बन्धाय विषयासक्तं मुक्तं निर्विषयं स्मृतम् ॥ २॥ मन एव शुद्धाशुद्धविभागवदन्तःकरणमेव । मनुष्याणां मनुवंश्यानामस्मदादीनामित्यर्थः । कारणं निमित्तम् । बन्धमोक्षयोः । बन्धोऽहंममेत्यायभिमानः सकारणस्तद्विपरीतो मोक्षः स्वयंप्रकाशमानानन्दात्माविर्भावस्तयोः । कीदृशं बन्याय कीदृशं च विपर्ययायेत्यत आह-बन्धाय बन्धार्थ बन्धनिमित्तमित्यर्थः । विषयासक्तं विषये
१ क. मुक्त्यै ।
For Private And Personal