SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ६८ शंकरानन्दविरचितदीपिकासमेता - बाह्यान्तर्व्यापार मेलनेनाशीत्यधिकं शतं त्रयोदशसहस्राणि लक्षमात्रं भवति । चकारत्रयं सापिकारमुक्तसमुच्चयार्थम् । एवकारोऽनया गणनया नातोऽधिकमेतदर्थः । एको लक्ष इति योज्यम् । निःश्वासः प्राणादिपञ्चकस्य बहिरन्तश्च व्यापारः । अहोरात्रम - माणतोऽहोरात्रप्रमाणेनैतावानहोरात्रेण भवतीत्यर्थः ॥ ३३ ॥ प्राण आयो हृदिस्थाने अपानस्तु पुनर्गुदे || समानो नाभिदेशे तु उदानः कण्ठमाश्रितः ।। ३४ । इदानीं तेषां स्थानान्याह – प्राणः श्वासस्य कर्ता । आद्यः प्रथमः । हृदि हृदपुण्डरीके | स्थाने प्रदेशे तिष्ठतीति शेषः । अपानस्त्वपान एव निश्वासस्य कतैव । पुनर्गुदे गुदवलय एवं तिष्ठतीति शेषः । समानोऽशितपीतसमनयनहेतुः । नाभिदेशे तु नाभिनालकन्दप्रदेश एव तिष्ठतीति शेषः । उदान ऊर्ध्वगामी शरीर मण्डपकीलभूतः । कण्ठं गलाभ्यन्तरदेशम् | आश्रित आश्रयं गतवान्कण्ठे वर्तत इत्यर्थः ॥३४॥ व्यानः सर्वेषु चाङ्गेषु तस्तिष्ठते सदा || अथ वर्णास्तु पञ्चानां प्राणादीनामनुक्रमात् || ३५ || व्यानो नाडीसहस्रसंचारी वीर्यवत्कर्मकारणभूतः । सर्वेषु चाङ्गेषु सर्वेष्वपि गात्रेषु चकारात्प्राणापानयोः संधावप्याहृतः संवृतस्तिष्ठते तिष्ठति । सदा सर्वदा । अथ स्थानकथनानन्तरम् । वर्णास्तु वर्णा अपि कथयन्त इति शेषः । पञ्चानां प्राणादीनां पञ्चसंख्याकानां प्राणापानसमानव्यानोदानानाम् । प्राण आदिर्येषां ते प्राणादयस्तेषामनुक्रमादुक्तक्रमानुसारात् ॥ ३१ ॥ रक्तवर्णमणिप्रख्यः प्राणो वायुः प्रकीर्तितः ॥ अपानस्तस्य मध्ये तु इन्द्रगोपस्य संनिभः || ३६ || प्राणरूपमाह — रक्तवर्णमणिप्रख्यः । रक्तवर्णो मणी रक्तवर्णमणिस्तत्प्रख्यस्तत्सदृशः । भास्वरः सन्प्रवालसदृश इत्यर्थः । प्राणो वायुः प्रकीर्तितः । स्पष्टम् । अपानस्वरूपं प्राणाविनाभावं चाऽऽह — अपान उक्तस्तस्य प्राणस्य | मध्ये त्वन्तरे च । इन्द्रगोपस्येन्द्रगोपमणेर्भूशं रक्तत्वे सति भास्वरस्येत्यर्थः । संनिभः सदृशः ॥ ३६ ॥ समार्नेस्तस्य मध्ये च गोक्षीरस्फटिकप्रभः ॥ आपाण्डुर उदानश्च व्यानो ह्यचिः समप्रभः || ३७ ॥ इदानीं समानस्य रूपमपानेनाविनाभावं चाऽऽह । समानो व्याख्यातः । तस्यापानस्य । मध्ये चान्तरपि । चशब्दाद्वहिरपि । गोक्षीरस्फटिकप्रभः । गोक्षीरस्फटि १ ख. 'षु व्याप्य तिष्ठति सर्वदा । २ ख. वर्णो म । ३ ख पसमप्रभः । ४ ख. नस्तु द्वयोर्मध्ये गोक्षीरधवलप्र' । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy