SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५९९ हंसोपनिषत् । एवं जपं गृहेशानि प्रत्यहं विनिवेदयेत् । गणेशब्रह्मविष्णुभ्यो हराय परमेश्वरि ।। जीवात्मने क्रमेणैव तथा च परमात्मने । षट्शतानि सहस्राणि षडेव च तथा पुनः ॥ षट्सहस्राणि च पुनः सहस्रं च सहस्रकम् । पुनः सहस्रं गुरवे क्रमेण विनिवेदयेत् ॥ आधारे स्वर्णवत्स्मृत्वा वादिसान्तानि संस्मरेत् । द्रुतसौवर्णवर्णानि दलानि परमेश्वरि ॥ स्वाधिष्ठाने विद्रुमा बादिलान्तानि च स्मरेत् । विद्युत्पुञ्जप्रभातानि सुनालमणिपूरके ॥ डफान्तानि महानीलप्रभाणि च विचिन्तयेत् । पिङ्गवर्णमहावह्निकणिकामानि चिन्तयेत् ॥ कादिठान्तानि पत्राणि चतुर्थेऽनाहते प्रिये । विशुद्धौ धूम्रवर्णे तु रक्तवर्णान्स्वरान्स्मरेत् ॥ आज्ञायां विधुदाभायां शुभौ हक्षौ विचिन्तयेत् । कर्पूरघुतिसंराजत्सहस्रदलनीरजे ॥ नादात्मकं ब्रह्मरन्धं जानीहि परमेश्वरि । एतत्सुषप्तचक्रेषु स्थितिभ्यः परमेश्वरि ।। जपं निवेदयेदेनमहोरात्रभवं प्रिये । अजपा नाम गायत्री त्रिषु लोकेषु दुर्लभा ॥ अजपा जपतो नित्यं पुनर्जन्म न विद्यते । अजपा नाम गायत्री योगिनां मोक्षदायिनी ॥ अस्याः संकल्पमात्रेण नरः पापैः प्रमुच्यते । अनया सदृशी विद्या अनया सदृशो जपः ॥ अनया सदृशं पुण्यं न भूतं न भविष्यति " इति । अस्य पुरश्चरणरूपेणापि शारदातिलके विधानमुक्तं तद्यथा "वियदर्धेन्दुललितं तदादिः सर्गसंयुतः । अजपाख्यो मनुः प्रोक्तो यक्षरः सुरपादपः ॥ ऋषिर्ब्रह्मा स्मृतो दैवी गायत्री छन्द ईरितम् । देवता जगतामादिः संप्रोक्तो गिरिजापतिः ॥ हसाषड्दीर्घयुक्तेन कुर्यादङ्गक्रियां मनोः । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy