SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५९८ www.kobatirth.org नारायणविरचितदीपिकासमेता अदृश्यं नवमे देहं दिव्यचक्षुस्तथाऽमलम् । दशमं परमं ब्रह्म भवेद्ब्रह्मात्मसंनिधौ ॥ ११ ॥ Acharya Shri Kailashsagarsuri Gyanmandir प्रथम इति । चिञ्चिणीशब्दाकारं तद्वदिव भवति । गात्रभञ्जनं गात्रभङ्ग इव भवति । खेदनं खिन्न इव भवति । अमृतनिषेत्रणममृतपानमिव । दशममिति । दशमं वेदभ्यस्यति परमं ब्रह्म भवेत् । तस्य फलं ब्रह्मात्मेति ॥ ९ ॥ १० ॥ ११ ॥ तस्मिन्मनो विलीयते मनसि संकल्पविकल्पे दग्धे पुण्यपापे सदाशिवः शक्त्यात्मा सर्वत्रावस्थितः स्वयंज्योतिः शुद्धो बुद्धो नित्यो निरञ्जनः शान्तः प्रकाशत इति । तस्मिन्ब्रह्मण आत्मनः संनिधौ सति मनो विलीयते विलीनं भवति । मनसि संकरूपविकल्परूपे गते सति पुण्यं च पापं च तयोः समाहारे दग्वे सति सदाशिवो भवति । शक्त्यात्मा च शिवशक्तिरूपो भूत्वा सर्वत्रावस्थितादिरूपो ब्रह्मरूपः प्रकाशते ब्रह्मैव भवति । इतिशब्दो हंसवर्णन समाप्यर्थः । सनत्सुजातेन गौतमं प्रति पार्वतीपरमेश्वरसंवादे हंसवर्णनमुक्तम् । स संवादो यथा- ईश्वर उवाच – “अजपाराधनं देवि कथयामि तवानघे । यस्य विज्ञानमात्रेण परं ब्रह्माधिगच्छति ॥ हंसं परं परेशानि प्रत्यहं जपते नरः । मोहान्धो यो न जानाति मोक्षस्तस्य न विद्यते ॥ श्रीगुरोः कृपया देवि ज्ञायते जपते ततः । तस्योच्छ्रासैस्तु निश्वासैस्तदा बन्वक्षयो भवेत् ॥ उच्छ्रासे चैव निश्वासे हंस इत्यक्षरद्वयम् । तस्मात्प्राणस्तु हंसाख्य आत्माकारेण संस्थितः ॥ नाभेरुच्छ्रासनिश्वासा हृदयाग्रे व्यवस्थिताः । षष्टिश्वासैर्भवेत्प्राणस्तत्षष्ट्या घटिका मता ॥ षष्टिनाड्या अहोरात्रं जपसंख्या जपामनोः । एकविंशतिसाहस्रं षट्शताधिकमीश्वरि ॥ प्रत्यहं जपते प्राणः स्यादानन्दमयी परा । उत्पत्तिर्जप आरम्भो मृतिरस्या निवेदनम् ॥ विना जपेन देवेशि जपो भवति मन्त्रिणः । अजपेयं ततः प्रोक्ता भवपाशनिकृन्तनी ॥ १ च. 'कल्पे वि' । २ च. 'त्योऽनित्यो नि' । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy