SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir संन्यासोपनिषत् । वायुभक्षोऽम्बुभक्षो वा विहितानोत्तरः फलैः। स्वशरीरे समारोपः पृथिव्यां नाश्रुपातकाः। सह तेनैव पुरुषः कथं संन्यस्त उच्यते । सनामधेयस्तु स किं यस्मिन्संन्यस्त उच्यते । तस्मात्फलविशुद्धाङ्गी संन्यासं सहतेऽचिमान् ॥ अग्निवर्ण निष्कामति वानप्रस्थं प्रपद्यते । त्राहारो वा भवेत् । भिक्षार्थं प्रविशेद्वाममित्यादिपक्षस्य दीक्षाविषयत्वादस्य चाद्यापि दीक्षामुपेयादिति वक्ष्यमाणत्वेन दीक्षाया अवृत्तत्वात् । फलैर्वृक्षादिभवैविहितमनस्य प्राणस्योत्तरं येन प्राणनोक्तं किं मे दास्यसीति तत्र फलदानमवोत्तरं विदधातीति विहितानोत्तरः फलैः । शक्तितारतम्येन पक्षत्रयपरिग्रहः । विविधानोत्तरफलैरिति पाठ उत्तरफलैः स्वर्गादिभिर्न विविधा विशेषेण विधत्तं करोति यत्नं विविधा उत्तरफलोद्देशेन प्रयत्नमकुर्वन् । अग्निमुपसमाधायेन्युक्तं तस्याग्नेः का प्रतिपत्तिरित्यत आह-स्वच. रीरे समारोप इति । स्वदेहे कोष्ठानो बाह्याग्नीनां समारोपः । यतः परमहंसदीक्षा. यामुदराग्नौ लोकाग्नीनां परमहंसोपनिषदि समारोपो विहितः । पृथिव्यां नाश्रुपातका इति । पुत्रादयो भूमौ नाच पातयन्ति । ननु जरामयं वा एतत्सत्रमिति श्रुतेः कथमग्नः परित्याग इत्यत आह-सहेति । तेनाग्निना सहैव वर्तमानः पुरुषः कथं संन्यस्तः कृतसंन्याप्त उच्यते नैवाच्यत इत्यर्थः। ननु तर्हि कथमग्निं शब्दमवा. भिचिन्तयेदित्योंकाराग्नौ ध्येपेऽपरित्यक्ते संन्यासोऽग्नित्वाविशेषादत आह-सनामधेयस्तु स किं यस्मिन्संन्यस्त उच्यत इति । यस्मिन्प्रणवाग्नौ सति पुमान्संन्यस्त उच्यते स प्रणवाग्निस्तु किं सनामधेयो नैव नामधेयवान्यथाऽऽहवनीयादिः शब्दवाच्यो नैवमसौ शब्दवाच्यः प्रणवाग्नेब्रह्मार्थत्वाद्ब्रह्मप्रतीकत्वाद्वा ब्रह्मातिरिक्तत्वं नामिमतं ब्रह्म च न शब्दवाच्यं तेन संन्यासे तस्य परित्यागो न भवतीत्यर्थः । ननु तथाऽपि स्वरूपेण तस्य दृश्यान्तर्भूतत्वात्कथ न संन्यासविरोधित्वमिति शङ्कामुपसंहारव्याजेन परिहरति-तस्मात्फलविशुद्धाङ्गीति । फलेन ब्रह्माख्येन विशुद्धः संसारातीतो योऽङ्गी संसारातीतफलप्रदो यः प्रधानमोकारोऽर्चिमानर्चिष्मानग्निः स संन्यासं सहते संन्यासविरोधी न भवतीत्यर्थः । ननु तथाऽप्यग्निहोत्रादिसाधितस्य तत्तल्लोकप्राप्तिहेतुभूतस्य सुकृताख्य॑स्य तेजसः क्व प्रतिपत्तिर्न हि तत्सुकृतं संन्यासिनि तिष्ठति तत्तलोकप्राप्तिलक्षणफलाभावादत आह-अग्निवर्णमिति । अग्नेर्वर्ण इव वर्णो यस्य तदग्निवर्णं सुकृतं तेजः संन्यासिनो निष्क्रामति निर्याति व याति स्वाव्यवहितं वानप्रस्थं प्रपद्यते संन्यासाधिकारिणोऽकृतसंन्यासस्य ये लोकास्ते संन्यासे सति वानप्रस्थस्य भव. १७. 'क्यते । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy