SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५५२ नारायणविरचितदीपिकासमेताज्ञानमयं तपस्तस्यैषाऽऽहुतिर्दिव्याऽमृतत्वाय कल्पतामित्येवमत ऊर्व यद्ब्रह्माभ्युदयद्दिवं च लोकमिदममुं च सर्व सर्वमभिजन्युः सर्वश्रियं दधतु सुमनस्यमाना ब्रह्मजज्ञानमिति ब्रह्मणेऽथर्वणे प्रजापतयेऽनुमतयेऽग्नये स्विष्टकृत इति हुत्वा यज्ञ यज्ञं गच्छेत्यग्नावरणी हुत्वोचित्सखायमिति चतुभिरनुवाकैराज्याहुतीर्जुहुयात्तैरेवोपतिष्ठते । गच्छ स्वां योनि गच्छ स्वाहा" इत्यधरारणिम् । “एष ते यज्ञो यज्ञपते सहसूक्तवाकः सर्ववीरस्तं जुषस्व स्वाहा" इत्युत्तरारणिं क्षिप्त्वा, ओचिदित्याज्याहुतीर्जुहुयादित्यन्वयः । मन्त्रार्थस्तु यो ब्रह्मा सर्वज्ञः सर्वस्य ज्ञाता सर्ववित्सर्व विन्दति लभते प्राप्तकामः । तपस्तपःफलम् । अमृतत्वाय तस्यामृतत्वात्तद्यागं समाप्य तत्त्वं दिशत्वित्यर्थः । यद्ब्रह्मेत्यस्यार्थ:--यद्यत्र यस्मिन्नक्षत्रे ब्रह्मा देवोऽभ्युदयदभ्य नयत्किं दिवं लोकं चेदं दृश्यमानममुं चादृश्यमानं सर्वमभिजन्युरभिनितवानिति पूर्वार्धमभिजिन्नक्षत्रं ब्रह्मदेवत्यं स्तौति । नक्षत्रद्वारा तद्देवताया ब्रह्मणोऽपि स्तुतिः । उत्तरार्धेन प्रार्थना । सर्वमभि. जन्युः सर्वजननकळभिजित्सुमनस्यमाना सुमना भवन्ती सर्वश्रियं सर्व श्रियं दधतु दधातु करोतु । ब्रह्मजज्ञानमित्यस्यार्थः-स वेनः । वेञ् तन्तुसंताने। औणादिको नः। बाहुलकादात्वाभावः । जगद्वानकर्ता ब्रह्मा सुरुचः सुदीप्तेः सीमतो मर्यादातः पुरस्तात्पूर्व प्रथमं मुख्य ब्रह्मज्ञानं ब्रह्म वेदस्तस्य जज्ञानं ज्ञानम्। छान्दसं द्वित्वम् । व्यावो वि(वर्वि)वृतवान्प्रकटी चकार । मुख्यो वेदार्थः सुमर्यादया प्रथमं येन प्रज्ञापित इत्यर्थः । आवरिति । वृञ् वरणे 'च्लि लुङि' मन्त्रे घसेति लेलुक । 'छन्दस्यपि दृश्यते' इत्याडागमो गुणो 'लु' हल्याबिति तिपो लोपः । व्यवहिताश्चेति वेळवहितप्रयोगः । व्यावो व्य(वय)वरीद्विवृतवान् । पदस्य पौरुषेयत्वादवरिति पदकालेऽटमेव प्रयुञ्जते । किमुपमोऽयमत आह-बुध्न्या मुख्योपमाऽस्य ब्रह्मणो विष्ठा विस्थानं प्राप्ता विरुद्धस्थितयो नात्र प्रचरन्त्यनुपमोऽयमि. त्यर्थः । वेदार्थोऽनेन प्रकाशितोऽन्यच्च किं कृतमत आह-सतश्चासतश्च योनिमुत्पत्ति विवो वि(वर्वि)वृवान्प्रकाशितवान्सर्वमुत्पादितवानित्यर्थः । वृञो लुङि 'बहुलं छन्दस्यमाल्योगेऽपि ' इत्यडभावः । विपूर्वः । शतपथे तु सूर्यपरतया व्याख्यातः । अनुवाकेराज्याहुतीरिति प्रत्यूचं होमोऽवगन्तव्यो मन्त्रभेदात् । अनुवाकानां व्याख्यानं तु गौरवात्प्रस्तुतानुपयोगाच्च नोच्यते । तैरेव चानुवाकैरुपतिष्ठते स्तौति मन्त्रप्रकाशितदेवताः । तेषु ऋक्संख्या यथाऽऽद्य एकपष्टिक्रंचो द्वितीये षष्टिस्तृतीये सप्तत्रिंशचतुर्थ एकोननवतिः । एवं मिलिता ऋचो द्वे शते सप्तचत्वारिंशञ्च २४७ ता यथा १ घ. 'स्यैवाऽऽहुँ । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy