________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ॐ तत्सब्रह्मणे नमः।
योगशिखोपनिषत्।
नारायणविरचितदीपिकासमेता।
योगमूर्धप्रतिष्ठेयमुक्ता योगशिखा सतः । त्रिखण्डा ग्रन्थसंदोहे द्वाविंशतितमा मता ॥ १ ॥ यद्वा वह्निशिखाध्यानयोगाद्योगशिखा मता ॥
साङ्गोपाङ्गो योग उक्तस्तथा तत्साधनानि च ॥ २ ॥ संप्रति देहान्ते योगिनो गमनप्रकारो वक्तव्य एतदर्थ योगशिखाऽऽरम्यते
ॐ योगशिखां प्रवक्ष्यामि सर्वज्ञानेषु चोत्तमाम् ॥ यदा तु ध्यायते मनं गात्रकम्पोऽभिजायते ॥१॥ आसनं पद्मकं बद्ध्वा यच्चान्यद्वाऽपि रोचते ।। कुर्यानासाग्रदृष्टिं च हस्तौ पादौ च 'संयतौ ॥ २॥ मनः सर्वत्र संयम्य ओंकारं तत्र चिन्तयेत् ॥ ध्यायेत सततं प्राज्ञो हृत्कृत्वा परमेष्ठिनम् ॥ ३ ॥ एकस्तम्भे नवद्वारे त्रिस्थूणे पश्चदैवते ॥
ईदृशे तु शरीरे वा मतिमानुपलक्षयेत् ॥ ४ ॥ ॐ योगशिखामिति । मन्त्रं प्रणवम् । गात्रकम्पः' श्रद्धातिशयसूचकः । यद्वा कम्पो भवति मध्यम इति वचनाद्यदा मध्यमः प्राणविजयो भवति तदाऽऽसनं बद्ध्वा । अन्यसिद्धादि । संयतौ कुर्यान्महाबन्धाभ्यासेन । सर्वत्र वर्तमानं सदिति शेषः । हृद्धृदि । परमेष्ठिनं कमलासनम् “परमेष्ठी पितामहः" इति कोशात् । एकमूर्तित्वा
रिहरवत्परमेष्ठिध्यानमपि मुक्तिहेतुः । अग्निर्वा परमेष्ठी । एकस्तम्भ एकः स्तम्भः सुषुम्नाश्रयो मुण्डाधारदण्डः क्रोडाख्यो यस्य तत्तस्मिन् । इडापिङ्गलासुषुम्नास्तिस्रः स्थूणा यस्मिंस्तस्मिंस्त्रिस्थूणे त्रिगुणात्मके वा। पञ्च चेन्द्रियाधिष्ठात्र्यो देवता एवं दैवतानि प्राणादयो वा यत्र तस्मिन्पश्चदैवते । शरीरे वेति । हृदपेक्षो विकल्पः ॥१॥ ॥ २ ॥ ३ ॥ ४ ॥
१ क, ङ. संयुतौ।
For Private And Personal