SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४६८ रामतीर्थविरचितदीपिकासमेता- [७ सप्तमः प्रपाठकः ] भासनिमित्ते वर्तमाना ये ते मूढा इति योजना । मोहव्याप्ताः सदसद्विवेकशन्यास्ते परियन्ति संसारमण्डले परिभ्रमन्ति नैषां श्रेयःप्राप्त्याशाऽस्तीत्यर्थः । किंलक्षणास्त इति तान्विशिनष्टि-वेष्ट्यमानाः पुत्रपशुधनक्षेत्रादितृष्णापाशशतैः संवेष्ट्यमानाः । अनेन तेषां संसारपरिभ्रमणाविच्छेदे कारणमुक्तम् । तथा च श्रुत्यन्तरम् - "कामान्यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र" इति । स्वयंधीराः पण्डितंमन्यमाना इति विशेषणान्तरम् । वयमेव धीरा धीमन्तो विवेकिनः शास्त्रकुशला इत्यात्मानं पण्डितं मन्यमाना न तु सम्यक्पण्डितास्ते । अनेन तेषां सत्सङ्गदौर्लभ्यं दर्शितम् । पुनस्तान्विशिनष्टि-दन्द्रम्यमाणाः कुटिलामनेकरूपां गतिं गच्छन्तः । जरामरणरोगादिदुःखशतैरुपदूयमाणा इति वा । अनेन तेषां पुण्यमार्गप्रवृत्त्यभावः सूचितः। तेषां मार्गप्रदर्शका अपि तादृशा एवेत्यभिप्रेत्य दृष्टान्तमाह-अन्धेनैवेति । एकेनाग्रयायिनाऽन्धेन नीयमाना देशाद्देशान्तरं प्रत्याकृष्यमाणा यथा बहवोऽन्येऽन्धाः पुरोन्धेन सह कूपकण्टकादिषु पतन्तो महान्तमनर्थं प्राप्नुवन्त्येवं वेदविरुद्धविद्वन्मन्यप्रदर्शितमार्गगा अपि तेनैव सह निरयप्राये संसारे पतन्तीत्यर्थः ॥ ९ ॥ इदानी वेदैकविषये सर्वशिष्टमतोपरोधनायेतिहासमवतारयति देवासुरा ह वै य आत्मकामा ब्रह्मणोऽन्तिकं प्रयातास्तस्मै नमस्कृत्वोचुर्भगवन्वयमात्मकामाः स त्वं नो बहीत्यतश्चिरं ध्यात्वाऽमन्यतान्यतात्मानो वै तेऽसुरा अतोऽन्यतममेतेषामुक्तं तदिमे मूढा उपजीवन्त्यभिष्वङ्गिणस्त भिघातिनोऽनृताभिशंसिनः सत्यमिवानृतं पश्यन्ति । देवासुरा ह वै० स्यादितीति । देवाश्चासुराश्च देवासुराः । ह वै, इत्यैतिद्यार्थी निपा. तौ। ये बभूवुः पूर्व देवाश्चासुराश्च त आत्मकामा आत्मज्ञानकामाः सन्तो ब्रह्मणः स्वपितुः प्रजापतेरन्तिकं समीपं प्रयाताः । तस्मै ब्रह्मणे नमस्कृत्वोचुहे भगवन्वयं यात्मकामास्त्वामुपसन्नाः स त्वमस्मद्गुरुर्नोऽस्मभ्यं ब्रह्मात्मतत्त्वमिति शेषः । इत्यूचुरिति संबन्धः । भतो यत आत्मतत्त्वं न सहसा वक्तुमुचितमतश्चिरं ध्यात्वा विचार्यामन्यत तत्कालोचितं वक्तव्यं विजज्ञौ । किम् । अन्यतात्मानो वै तेऽसुराः । प्रसिद्धा असुरा अन्यतात्मानोऽन्यतायामन्यत्वे भेदवति देहादावात्ममतय इत्यर्थः । अयतात्मान इति क्वचित्पाठः सुगमः । तथा च देहात्मवादं प्रकृत्य च्छान्दोग्ये श्रूयते-'असुराणां ह्येषोपनिषत् ' इति । अतः परं श्रुतिवचनम् । यतो दृढं भेददृष्टयोऽसुरा अतोऽन्यतमं देवेभ्य उक्तादत्यन्तमन्यदेतेषामसुराणामात्मतत्त्वं प्रजापतिनोक्तमित्यर्थः । यद्यपि प्रजापतिना देवा. १ ग. 'स्ते किं ५। २ क, मिर्जीय' । ३ क. शास्त्रेषु कु । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy