SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [१ षष्ठः प्रपाठकः ] . मैन्युपनिषत् । ४५९ मनुरवदत्तद्भेषजम्' इति श्रुत्यैव मनोः प्रशंसनात्प्रायः श्रुतिरेव मनुवचनमिति गम्यते । यद्वाऽग्नौ प्रास्ताऽऽहुतिः सम्यगिति वचनं क्वचिच्छाखान्तरगतमेवेदं मनुना निबद्धमिति न मनुप्रणीतमतोऽनादिसिद्धया श्रुत्या कथमग्भिाविस्मृतिवचनमुदाहियत इति न शङ्कास्पदम् । श्लोक उक्तार्थः ॥ ३७ ॥ इदानीं पृथिवी गार्हपत्य इत्यादिनोक्तप्रकारेणाग्निहोत्रं जुह्वतः फलप्राप्तिं सोपस्करामाह अग्निहोत्रं जुबानो लोभजालं भिनत्त्यतः संमोहं छित्त्वा न क्रोधास्तुन्वानः काममभिध्यायमानस्ततश्चतुर्जालं ब्रह्मकोश भिन्ददतः परमाकाशमत्र हि सौरसौम्याग्नेयसात्त्विकानि मण्डलानि भित्त्वा ततः शुद्धः सत्त्वान्तरस्थमचलममृतमच्युतं ध्रुवं विष्णुसंज्ञितं सर्वापरं धाम सत्यकामसर्वज्ञत्वसंयुक्तं स्वतत्रं चैतन्यं स्वे महिाम्न तिष्ठमानं पश्यत्यत्रोदाहरन्ति । अग्निहोत्रं. अत्रोदाहरन्तीति । यथोक्तप्रकारमग्निहोत्रं जुह्वानः कालेन शुद्ध्यु. पेतान्तःकरणः सल्लोभमयं जालं श्रेयोमार्गनिरोधकं भिनत्ति विदारयति । अतोऽनन्तरं लोभमूलं मोहमविवेकलक्षणं छित्त्वा विवेकेनोत्कृत्य क्रोधान्क्रोधमयान्भावान्न स्तुन्वानोऽस्तुन्वानो न प्रशंसंस्तान्परित्यजन्निति यावत् । कामं मोक्षलक्षणमभिध्यायमानो मोक्ष एव मे फलमस्त्विति मनसोल्लिखन्नित्यर्थः । तैत एवं सम्यग्विशुद्धेऽन्तःकरणे सति चतुर्जालं ब्रह्मकोशं चतुभिरन्नमयप्राणमयमनोमयविज्ञानमयाख्यालैः परिवेष्टितं ब्रह्मकोशं ब्रह्मणः परस्याऽऽच्छादकं मायामयमानन्दमयाख्यं तस्मिन्हि ब्रह्म निहितं श्रूयते (तै उ०) ' यो वेद निहितं गुहायां परमे व्योमन् । 'ब्रह्म पुच्छं प्रतिष्ठा ' इति च । तं कोशं भिन्दत्साक्षिसाक्ष्यविवेकलक्षणेन तत्त्वज्ञानेन भिन्दन्नुन्मूलयन्प्रत्यगर्थमुद्धरनित्यर्थः। अतः परमाकाशं सच्छब्दवाच्यं कारणोपाधिकम् । 'आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म' इत्युक्तलक्षणं (छान्दो०अ०८) प्रविशेदिति शेषः । अत्र ह्याकाशे ब्रह्मण्युपासनार्थं यानि सूर्यसोमाग्नीनां मण्डलानि सात्त्विकानि सत्त्वगुणात्मकानि कल्पितानि तानि भित्त्वा सूर्यादिदेवतादिकमखिलं प्रपञ्च परे कारणे ब्रह्मणि प्रविलाप्येत्युक्तं भवति । तत उपास्योपासकभेदप्रतिभासहेत्वभावाच्छुद्धः प्रत्यगात्ममात्रतया स्थितो विद्वान्सत्त्वान्तरस्थं शुद्धसत्त्वमयान्तःकरणवृत्तावभिव्यक्तिं गतमचलमित्याद्यनेकविशेषणैरुपलक्षितं ब्रह्म पश्यति साक्षादुपलभते मुच्यत इत्यर्थः । १ क. पस्कारमा । २ क. °न्दनतः । ३ क, ततः स । ४ क. 'न्दन्साक्ष। ५ गः "न्ददुन्न । ६ क. ति वाक्यशे' । ७ क. ण प्रत्र । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy