________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४०८
रामतीर्थविरचितदीपिकासमेता- [६ षष्ठः प्रपाठकः ] यस्मादीजसंभवा० भोज्यत्वं व्याख्यातामेति । पशवो हि गवाश्वमहिषपुरुषादयः कुटुम्बिकस्य भोज्यत्वेन प्रसिद्धा यस्माद्वीजसंभवाः स्वबीजभूतान्नरसपरिणामादिसंभवास्तस्माद्वीजं भोज्योपादानत्वाद्भोज्यं प्रसिद्धमित्यर्थः । बोजस्य भोज्यत्वप्रदर्शनफलमाह-अनेनेति । कार्येषु भोज्यत्वस्य सिद्धत्वात्कारणस्यापि तत्सिद्धं कार्यकारणयोरभेदादित्यर्थः । प्रमाणेनोपपादितमर्थमुपसंहरति
तस्माद्भोक्ता पुरुषो भोज्या प्रकृतिस्तत्स्थो भुत इति । तस्माद्भोक्ता० प्रकृतिस्तत्स्थो भुक्त इतीति । व्याख्यातार्थोऽयं ग्रन्थः । एवं प्रकृतेर्भोज्यत्वं प्रसाध्य तत्कार्यस्य भोज्यत्वं प्रपञ्चयति
प्राकृतमन्नं त्रिगुणभेदपरिणामत्वान्महदाचं विशेषान्तं लिङ्गम् । प्राकृतमन्नं० विशेषान्तं लिङ्गमिति । यत्प्राकृतं प्रकृतिप्रभवं कार्यरूपमन्नं तत्रिगुणभेदपरिणामत्वात्सत्त्वादिगुणविशेषपरिणामत्वान्महदाद्यं महान्प्रकृतेरायो विकारो ज्ञानक्रियाशक्तिसंमूर्छितः स आद्यो यस्य तन्महदाद्यम् । विशेषा विकारशब्दवाच्याः पृथिव्यादिमहाभूतलक्षणा अस्मदादिप्रत्यक्षयोग्या अन्तो यस्य तद्विशेषान्तम् । तत्की. दृशं लिङ्गं लिङ्गयते ज्ञायते चेतनसद्भावोऽनेनेति व्युत्पत्तेरचेतनं भोज्यमित्यर्थः। विषयाणां विशेषाविशेषरूपो विभागः सांख्यैरुक्तः___"तन्मात्राण्यविशेषास्तेभ्यो भूतानि पञ्च पञ्चभ्यः ।
एते स्मृता विशेषाः शान्ता घोराश्च मूढाश्च" (सांख्यका०) इति । विशेषाविशेषरूपाणां विषयाणां भोज्यत्वं सामान्येनोक्तं प्रत्येकमिन्द्रियार्थेषु योजयति_अनेनैव चतुर्दशविधस्य मार्गस्य व्याख्या कृता भवति ।
अनेनैव चतुर्दश० व्याख्या कृता भवतीति । बाह्येन्द्रियप्रवृत्तिमार्गो दशविधोऽन्तःकरणवृत्तेश्चातुर्विध्यात्तस्याश्चतुर्विधो मार्ग इति चतुर्दशविधो मार्गस्तस्यापि भोज्यत्वेन व्याख्या कृता भवतीत्यर्थः । प्रतिपादितार्थ श्लोकेन संगृह्णाति__ सुखदुःखमोहसंज्ञ ह्यन्नभूतमिदं जगत् । न हि
बीजस्य स्वादुपरिग्रहोऽस्तीति यावन्न प्रसूतिः । सुखदुःखमोहसंज्ञं० यावन्न प्रसूतिरिति । सुखदुःखमोहकरत्वात्रिगुणात्मकमिदं जगत्सुखादिसंज्ञितमन्नभूतं हि प्रसिद्धमित्यर्थः । बीजस्य यत्स्वादु स्वादनं तस्य परिग्र
१ ग. भुङ्क्ता । २ ग. भुक्ता । ३ क. "तिभ' । ४ क. 'त्यययो । ५ क. षु विशेषेषु यो। ६ क. पि न्या । ७ क. °दितमर्थे ।
For Private And Personal