SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३३४ शंकरानन्दविरचितदीपिकासमेता वक्ष्यमाणम् । मूर्धनि मस्तके दशमद्वारे चन्द्रमण्डलान्तः स्थितं स्थानं प्राप्तं विद्यादित्यनुषङ्गः । इदानीं तुरीयं स्वरूपं शृङ्गग्राहिकयाऽऽह Acharya Shri Kailashsagarsuri Gyanmandir यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दमेतज्जीवस्य यज्ज्ञात्वा मुच्यते बुधः । यतो यस्मात्तुरीयादानन्दात्मनः । वाचः श्रुतिवध्वो द्रक्ष्यामो वक्ष्यामः स्प्रक्ष्यामचैतमिति संकल्प्य प्रवृत्ता वाराङ्गना इव सोत्कण्ठा महाराजमदृष्टचरमवसराभावाभिव र्तन्ते यथागतं गच्छन्ति । अप्राप्यास्पृष्ट्वा । अदृष्ट्वाऽनुक्त्वा चेत्येतयोरुपलक्षणम् । सर्वैः प्रकारैरनुपलभ्येत्यर्थः । ननु वागप्राप्यस्यापि मनसा चम्पक के तक्यादिगन्धविशेषादरुपलम्भात्तदुपलम्भोऽपि स्यादित्यत आह । मनसाऽन्तः करणेन वागाद्यग्राह्यग्राहकेण सह समम् । आनन्दं निरतिशयानन्दस्वरूपं तुरीयम् । एतद्वा मनसागम्यम् । जीवस्य प्राणानां धारयितुः । यत्प्रसिद्धं स्वयंप्रकाशम् । ज्ञात्वा साक्षात्कृत्य । मुच्यतेऽवेिद्यातत्कार्येभ्यो विमुक्तो भवति । बुधो विद्वानधिकारी । इदानीमस्य तुरीयस्याऽऽनन्दरूपस्य वाङ्मनसातीतस्य शङ्कितं परिच्छेदं वारयन्संक्षेपेण शास्त्रार्थमुपसंहरति- सर्वव्यापिनमात्मानं क्षीरे सर्पिरिवार्पितम् । सर्वव्यापिनमाकाशवत्सर्वस्य वस्तुजातस्याऽऽकाशादेरधिकव्याप्तिकम् । आत्मानमस्मद्बुद्धिसाक्षिणं स्वयंप्रकाशचिदानन्दस्वरूपिणम् । एवं वर्तमानमपि नोपायमन्तरेण लभ्यत इति दृष्टान्तेनाऽऽह — क्षीरे सर्पिरिवार्पितं यथा क्षीरे घृतं वस्तुस्वभावेन समर्पितं विद्यमानमपि नोपायमन्तरेण लभ्यं तद्वज्जानीयादिति शेषः । सर्वतः सन्नप्ययमात्मा नोपायमन्तरेण लभ्यत इत्यर्थः । उपायं संदर्शयन्सर्वकारणतामात्मन आह आत्मविद्यातपोमूलं तद्ब्रह्मोपनिषत्पदं तद्ब्रह्मोपनिषत्पदमिति ॥ ४ ॥ आत्मविद्यातपोमूलम् । आत्मनः स्वयंप्रकाशचिदानन्दरूपस्य विद्योपासनं श्रवणमननादि तज्जन्यसाक्षात्कारश्च तप आत्मज्ञानसाधनं स्ववर्णाश्रमोचिताचाररूपं तयोः प्रवृत्तिनिवृत्त्यात्मकयोः । विद्यातपोभ्यां निखिलस्य जगतोऽप्युपलक्षणम् । मूलमुपादानकारणम् । तत्सत्यज्ञानादिलक्षणम् । ब्रह्म सर्वस्मादधिकं त्रिविधपरिच्छेदशून्यमित्यर्थः । उपनिषत्पदम् । सदेरुपनिपूर्वस्य संसारविनाशार्थस्य ब्रह्मगत्यर्थस्याविद्यादिवन्धशिथिलीकरणार्थस्य च ब्रह्मज्ञानमन्तरेणासंभवादुपनिषद्ब्रह्मज्ञानं तस्य पदं विषयः । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy