SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॐ तत्सब्रह्मणे नमः । पिण्डोपनिषत् । Odo नारायणविरचितदीपिकासमेता । खण्डमेकं पिण्डहेतुः सप्तविंशतिपूरणी । पिण्डोपनिषदुद्दण्डवैराग्यजननाय सा ॥ १ ॥ संसारविमुक्तये परमहंससंन्यास उक्तस्तद्रहितानां विपन्नानां का गतिरिति संशये वैराग्यजननाय संसारिणां पराधीनां गति निरूपयितुं पिण्डोपनिषदारम्यते ॐ देवता ऋषयः सर्वे ब्रह्माणमिदमब्रुवन् । मृतस्य दीयते पिण्डः कथं गृह्णन्त्यचेतसः ॥ १ ॥ भिन्ने पश्चात्मके देहे गते पञ्चसु पञ्चधा ॥ हंसस्त्यक्त्वा गतो देहं कस्मिन्स्थाने व्यवस्थितः ॥ २ ॥ देवता इति । आख्यायिका संप्रदायाविच्छेदप्रदर्शनार्था । दीयते पिण्डो लोकैरिति शेषः । तच्च शरीरमन्तरेण चेतनारहिता मृताः कथं गृह्णन्तीति प्रथमः प्रश्नः । पञ्चसु भूतेषु विषये पञ्चधा देहे गते सति हंसः कस्मिन्नवस्थित इति द्वितीयः प्रश्नः ॥१॥२॥ ज्यहं वसति तोयेषु व्यहं वसति चाग्निषु ॥ व्यहमाकाशगो भूत्वा दिनमेकं तु वायुगः ॥३॥ द्वितीयस्योत्तरमाह-त्र्यहमिति ॥ ३ ॥ भोगोचितशरीरोत्पत्तिद्वारा चेतनः सन्पिण्डं गृह्णातीत्याद्यस्योत्तरमाह-- प्रथमेन तु पिण्डेन कलानां तस्य संभवः ॥ द्वितीयेन तु पिण्डेन मांसत्वक्शोणितोद्भवः ॥ ४॥ तृतीयेन तु पिण्डेन मतिस्तस्याभिजायते ॥ चतुर्थेन तु पिण्डेन अस्थिमज्जा प्रजायते ॥५॥ पश्चमेन तु पिण्डेन हस्ताङ्गुल्यः शिरो मुखम् ॥ षष्ठेन कृतपिण्डेन हत्कण्ठं तालु जायते ॥ ६ ॥ सप्तमेन तु पिण्डेन दीर्घमायुः प्रजायते ॥ अष्टमेन तु पिण्डेन वाचं पुष्यति वीर्यवान् ॥ ७॥ For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy