SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org परमहंसोपनिषत् । यत्पूर्णानन्दैकबोधस्तद्ब्रह्माहमस्मीति कृतकृत्यो भवति कृतकृत्यो भवति ॥ ४ ॥ ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवा सस्तनूभिर्व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो Acharya Shri Kailashsagarsuri Gyanmandir यत्स्मृति:- "ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः । ना०दी० इन्द्रियोपरतौ च न कदाचिदात्मनिर्विकल्पक समाधेर्विघ्नो भवति । तेषां का स्थितिरिति प्रश्नस्य संक्षेपविस्तराभ्यामुत्तरं पूर्वमुक्तं तदेवात्र पुनरपि हिरण्यनिषेधप्रसङ्गेन स्पष्टीकृतम् । अथ विद्वत्संन्यासमुपसंहरति-- यत्पूर्णानन्दैकवोधस्तद्ब्रह्माहमस्मीति कृतकृत्यो भवति कृतकृत्यो भवतीति । अधिकप्रक्षेपग्रन्थनिरासाय संपूर्णप्रतीकोपादानम् । यद्ब्रह्म वेदान्तेषु पूर्णानन्दैकबोधः परमात्मेति निरूपितं तद्ब्रह्माहमस्मीत्यनुभवन्योगी परमहंसः कृतार्थो भवतीत्यर्थः । द्विरुक्तिः समाप्त्यर्था ॥ ४ ॥ नैवास्ति किंचित्कर्तव्यमस्ति चेन्न स तत्त्ववित्" इति ॥ ३०१ For Private And Personal शं०दी ० न्दादिलक्षणम् । पूर्णानन्दैकवोधः पूर्णानन्दैकबोधम्। पूर्णो देशकालवस्तु परिच्छेदशून्यः । आनन्दैकबोधः । एकशब्द एवकारार्थः । सुखरूप एव न त्वन्यः । एको बोधः स्वयंप्रकाशमानसंवित्स्वभावस्तदेकं रूपं यस्य ब्रह्मणस्तत्पूर्णानन्दैकबोधरूपम् । तदुक्तम् । ब्रह्म बृहत् । सर्वजगत्कारणं तत्पदार्थोपगतपारोक्ष्यादि । अहं त्वंपदार्थोपगतदुःखि - त्वादि । अस्मि, अपगतसमस्तभेदस्वयंप्रकाशमानानन्दात्मस्वरूपेण भवामि । इत्यनेन प्रकारेण विविदिषासंन्यास्यपि विद्वान्भवतीत्यर्थः । ननु बोधस्य सर्वस्य त्रीहिमन्त्रादिजन्यस्य यथा कर्माङ्गता तथाऽत्रापि स्यादित्यत आह — कृतकृत्यो भवति । कृतं कृत्यमनुष्ठेयं स्वाभीष्टफलप्राप्तिलक्षणं येन स कृतकृत्यः संपद्यते । अयमर्थः । यदि व्रीह्यादिज्ञानं कर्मप्रवृत्तिहेतुस्तत्स्वानुष्ठितेऽपि यागे साधितेऽपि स्वर्गे किमिति तस्यैव तस्मिन्नेव प्रवृतिं जनयति ततो मयेदं करणीयमस्मै फलायेतीयं बुद्धिरकृतकृत्यतापरपयया प्रवृत्तिहेतुरिति वर्णनीयं स च स्वयंप्रकाशमानानन्दात्मनि स्फुरत्यपगत समस्तभेदवापर इति सा कथं स्यात् । ततः साधूक्तं कृतकृत्यो भवतीति ॥ ४ ॥
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy