________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२९२ नारायणशंकरानन्दविरचितदीपिकाभ्यां समेता
एवास्मि तदेव मम परमधाम तदेवं शिखा च तदेवोपवीतं चै
परमात्मात्मनोरेकत्वज्ञानेन तयोर्भेद एव विभग्नः सा संध्या॥२॥ ना०दी त्यागे दोषमाशङ्कय निरस्यति-तदेव शिखा च तदेवोपवीतं चेति । ज्ञानमेव शिखा चोपवीतम् । चकाराभ्यां मन्नद्रव्यरूपे अपि कर्माङ्गे ज्ञानमेव । यदानातमाथर्वणिकैब्रह्मोपनिषदि सशिखं वपनं कृत्वा' इत्यादि । अत्र यदेतन्नित्यपूतस्थस्तदेवावस्थानमिति ग्रन्थः शिष्टैर्नाऽऽदृतः । संध्यालोपे दोषमाशङ्कयाऽऽह-परमात्मात्मनोरेकत्वज्ञानेन तयोर्भेद एव विभग्नः सा संध्येति । जीवब्रह्मणोरक्यज्ञानेन महावाक्यजेन तयोर्यः प्रतीतो भेदः स विशेषेण भग्नः पुनधीन्त्यनुदयाद्येयमेकत्वबुद्धिः सैवो. भयोरात्मनोः संधौ जातत्वात्संध्या । अहोरात्रयोः संधावनुष्ठीयमाना क्रिया संध्या यथा तद्वत् । तथाच नास्य प्रत्यवायः ॥ २ ॥
कोऽयं मार्ग इत्यस्यासौ स्वपुत्रेत्यादिनोत्तरमुक्तं का स्थितिरित्यस्य महापुरुष शं०दीच न भेदगन्धोऽपि। यथा लवणाकारेणापरिणतस्य समुद्रस्याम्भसो लवणपिण्डस्य च । तथाऽप्यानन्दविज्ञानयोः सुखबोधपर्याययोरैक्येऽप्याधारादिप्रयुक्तो भेदो भविष्यति यथा सांसारिकयोरित्यत आह-एवेति । संसारे तयोर्जायमानत्वाज्जनिमतां चाऽऽधारादिप्रयुक्तो भेदोऽस्तु न त्वेतयोस्तद्वैपरीत्यात् । न चात्र सुखबोधत्वेनोत्पत्तिराशङ्कितुं शक्या। सर्वशास्त्रानुभवविरोधात्करणाद्यभावात्तर्कविरोधाच्च । अस्मि भवामि । नन्वेवंबोधवतोऽपि प्राप्यमन्यदेव यथा राजाऽहमस्मीतिबोधवतो नगरमित्यत आह-तदेव शान्तमचलमद्वयानन्दविज्ञानघनरूपं न त्वन्यत् । मम शान्ताचलाद्वयानन्दविज्ञानघनबोधवतः । परमधाम परमं च तद्भासुरं धाम स्थानं च परमधाम । प्राप्यमिति यावत् । ननु तथाऽपि संवर्तकादेरेव परस्य वा परमहंसस्य कथं ब्राह्मण्यं शिखायज्ञोपवीतरहितस्वादित्यत आह-तदेव शिखा च तदेवोपवीतं च । चकाराभ्यां स्वाध्यायसंध्यावन्दनादिकं श्रौतं स्मार्तं च परिगृह्यते । अन्यव्याख्यातं स्पष्टं च । ननु तथाऽपि संध्यावन्दनाभावाब्राह्मणो विदितसमस्ततत्त्वोऽपि लोकनिन्दातो न निवर्तत इत्यत आह-परमात्मात्मनोस्तत्त्वंपदार्थयोरपगतपारोक्ष्यदुःखित्वादिकयोः सत्यज्ञानानन्दानन्तसाक्षिण एकत्वज्ञानेन त्वंपदार्थस्य तत्पदार्थोऽस्मीतिबोधेन तयोस्तत्त्वंपदार्थयोर्भेद एव विभग्नः, भेदोऽननुसंधानहेतुः पारोक्ष्यसद्वयत्वादिप्रतीतिकारणम् । विभग्न एवाविशेषेण पुनरुत्थानशून्यत्वेन मत्तगजेनेव महातरुः समूलमामर्दितो न त्वल्पमूलेनाप्यवशेषितः । सा जीवपरमात्मनोर्मेदभङ्गेनैवानुसंधानलक्षणा । संध्या ब्रह्मचार्यादेरिव परमहंसस्यापि संधौ भवा क्रियैव । ततो निरालम्बना लोकनिन्देत्यर्थः ॥ २ ॥ __ननु संध्यादिकाले सर्वान्व्यापारान्विहाय तिष्ठन्त आसीना वा त्रैवर्णिका उपल.
१ ख. ग. घ. ङ. रमं धा। २ ख. व च शिखा त। ३ क. ख. घ. च यदेतनिरन्तरं पूतस्थस्तदेवावस्थानं प।
For Private And Personal