________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
परमहंसोपनिषत् । स्तत्स्वयमेवावस्थितिस्तं शान्तमचलमद्वयानन्दविज्ञानधन
ना०दी०त्मनि नित्यो बोधो यस्य सः । योगी हि विज्ञाय प्रज्ञां कुर्वीत' इति श्रुतिमनुसृत्य चित्तविक्षेपान्योगेन परिहत्य नैरन्तर्येण परमात्मविषयामेव प्रज्ञां करोति तेन बोधस्य नित्यत्वं तन्नित्यत्वात्तद्विनाश्ययोरज्ञानतद्वासनयोरपि निवृत्तिनित्येत्यर्थः । तन्नित्यपूतस्थ इति केषांचित्पाठः । तत्र तस्मिन्नित्यपते परमात्मनि स्थित इत्यर्थः । बुध्यमानस्य परमात्मनस्तार्किकेश्वरवत्तटस्थत्वशङ्कां वारयति-तत्स्वयमेवावस्थितिरिति । यद्वेदा. न्तवेद्यं परं ब्रह्मास्ति तत्स्वयं न तु स्वस्मादन्यदित्येवं निश्चित्य योगिनोऽवस्थितिर्भवति । अनुभवप्रकारमाह-तं शान्तमचलमद्वयानन्देति । पदत्रये द्वितीया प्रथमार्थे द्रष्टव्या। यः परमात्मा शान्तः क्रोधादिविक्षेपरहितोऽचलो गमनादिक्रियारहितः स्वगतसजातीयविजासोयभेदशून्यः सच्चिदानन्दैकरमोऽस्ति स एवाहमस्मि । तदेव ब्रह्मतत्त्वं मम योगिनः परमं धाम वास्तवं स्वरूपं न चैतत्कर्तृत्वभोक्तृत्वादियुक्तं तस्य मायिकत्वात् । आचारशंदी विनाशशून्ये सत्यज्ञानादिलो तत्त्वमस्यहं ब्रह्मास्मीत्येवंलक्षणोऽविद्यातत्संबन्धस्य निवर्तको बोधो यस्य संवर्तकादेः सोऽयं तन्नित्यबोधः । नन्वद्वैतबोधेनाविद्यातत्संबन्धस्य द्वैतस्य निवृत्तिः क्रियत आनन्दात्मना व्यवस्थितिः कुल इत्यत आह-तत्स्वयमेवा. वस्थितिः तस्मिन्नानन्दात्मनि विक्षेपावरणात्मकमिथ्याज्ञानसंबन्धनिवृत्तौ स्वयं प्रकाश. मानानन्दात्मस्वरूपमर्थादेव न तु तत्त्वतो व्यतिरिक्तकारणान्तरात् । कतकरजस्येव रजोन्तरनिवृत्तौ नीरस्यान्यानपेक्षत्वेन स्वात्मनि स्वच्छस्वभावेऽवस्थितिरवस्थानं पुनःप्रच्युतिशून्यत्वेन स्वभावप्राप्तिर्न कदाचित्केनापि हेतुनाऽतिरेकेण वा मिथ्याज्ञानतत्संवन्धस्पर्शा इत्यर्थः । एवमात्मस्वरूपेऽवस्थानमुक्त्वा तदवस्थाननिमित्तमात्मबोधमभिनयेन दर्शयति-तं स्वयं प्रकाशमानः स्वच्छस्वभावः । शान्तं शान्तोऽविद्यातत्संबन्धाभ्यां कालत्रयेणाप्यसंस्पृष्टः । अचलमचलः कूटस्थः सर्वदैकस्वभाव इत्यर्थः। अद्वयानन्दविज्ञानघन एव, द्वयमानन्दात्मव्यतिरिक्तं वस्तु सदसदादिरूपं तद्रहितोऽद्वयः। स घासावानन्दः सुखस्वभावश्चेति । यद्यप्यद्वयपदेऽसाधनपारतत्र्यादिदोष आनन्दस्य निराकृत आनन्दपदेन चाऽऽत्मनोऽनन्यशेषत्वमुक्तं तथाऽपि तस्याप्रतीयमानत्वादपुरुषार्थत्वमन्यप्रतीतौ च द्वयत्वं द्वयत्वाच्चाशान्तत्वम् । न हि द्वयमविद्यातत्संबन्धहीनं किंचिदस्ति । अशान्तत्वाञ्चलत्वं न ह्यविद्यादेरपरिणामित्वं तत आह-विज्ञानेति । अद्व. यानन्द एव विज्ञानं स्वयंप्रकाशं तस्यातः प्रतीतावनवस्थाऽप्रतीतौ जगदान्ध्यादिदोषप्र. सङ्गस्ततो नाप्रतीतिर्न द्वैतापत्तिश्च । तथाऽपि नीलोत्पलादिवदानन्दविज्ञानयोः सामानाधिकरण्यमित्याह-घनेति । घनः खिल्यः पिण्ड इति यावत् । तथाचाद्वयानन्दस्य विज्ञानस्य
१ च. 'मित्यत आह।
For Private And Personal