SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २५१ जाबालोपनिषत् । व्यक्तलिङ्गा अव्यक्ताचारा अनुन्मत्ता उन्मत्तवदाचरन्तस्त्रिदण्डं कमण्डलु पात्रं शिक्यं जलपवित्रं शिखां यज्ञोपवीतं चेत्येतत्सर्वं भूः स्वाहेत्यप्सु परित्यज्याऽऽत्मानमन्विच्छेद्यथा नादी०निदाघः पुलस्त्यपुत्रो देविकातीरवास्यमुशिष्यः । एतौ विष्णुपुराणे द्वितीयांशस्यान्त उक्तौ । प्रभृतिग्रहणादैतरेयकवृषभदेवादयः। अव्यक्तानि लिङ्गान्युपवीतादीनि येषां तेऽव्यक्तलिङ्गाः । अव्यक्त आश्रमविरुद्ध आचारो येषां तेऽव्यक्ताचाराः । नदेवाऽऽह-उन्मत्तवदिति । यथा दत्तात्रेयस्य मदिरास्त्रीनिषेवणादि । त्रिदण्डी यदा परमहंसपदवीमधितिष्ठति तदा दण्डादीनां का प्रतिपत्तिरत आह–त्रिदण्डमिति। शंन्दी०मारतं वर्षमभवत् । विष्णोरंशो दत्तात्रिः स एवारपत्यं दत्तात्रेयो योगीश्वरः । रैवतकः प्रसिद्धः। कचित्पुराणे रेवत्याः पुत्रो रैवतकस्तस्य क्षत्रियत्वादत्र ग्रहणमयुक्तम्। ब्राह्मणप्रायपाठस्य विद्यमानत्वात् । प्रभृतिशब्देन सौमर्यादयः । संवर्तादयः श्रुत्या द्वंद्वसमासेन पठिता बुद्धिसौकर्यार्थमस्माभिर्विच्छिद्य व्याख्याताः । अव्यक्तलिङ्गा आचरन्त इत्यन्तं तेषामेव विशेषणजातम् । अव्यक्तानि लिङ्गानि पञ्चमुद्रादीनि कपाले येषां तेऽव्यक्तलिङ्गाः । अव्यक्ताचारा न व्यक्तः स्पष्टो लोकैर्विज्ञातुं शक्य आचारः शीलं कर्म सदसदात्मकं च येषां तेऽव्यक्ताचाराः । अनुन्मत्ता मत्ता लोकद्वयविचारशून्या विद्यामदवन्तः कलञ्जादिभक्षणेन प्राप्तमदास्तद्विपरीता अनुन्मत्ताः । उन्मत्तवदाचरन्तो यथा ग्रहाद्याविष्टा अनिष्टं वदन्तो वा तद्वद्विविधचेष्टाकारिणः । तथा लोकसमक्षदर्शने बुद्धिपूर्वकं तेषामश्रद्धोत्पादनार्थ विविधचेष्टाचारवन्तः । आश्रमप्रयस्यानधिकृतानां च पूर्व पारमहंस्यमुक्तम् । इदानी चतुर्थाश्रमस्यावान्तरभेदत्रयस्योपलक्षणन्यायेन पारमहंस्यमाह-त्रिदण्डं वैणवदण्डत्रयम् । कमण्डलुमलाबुदादिविकारं जलपात्रम् । शिक्यं दर्भमौज्यादिरशनारचितं भिक्षापाप्राधारभूतम् । पात्रमलाबुदादिमयं दृढं भिक्षापात्रम् । जलपवित्रं वितस्तिमात्रं शुक्लवस्त्रं सर्वदाऽऽचमनादौ जलशोधनार्थ चतुष्कोणं त्रिदण्डबद्धं वस्त्रम् । त्रिदण्डाद्याः पञ्च मात्रास्त्रिदण्डिनां यासामन्यतमभेदेऽपि त्रिदण्डिनां प्रायश्चित्तम् । शिखां यज्ञोपवीतं शिखा केशमयी तां यज्ञोपवीतं ब्रह्मसूत्रमुभे अपि पूर्वकर्माङ्गे । चकारः पञ्चमात्राणां शिखायज्ञोपवीतयोश्च परित्यागसमुच्चयार्थः । इत्येवमन्यदपि गायत्र्यादिकमेतन्निखिलं सर्व पूर्वोक्तम् । परित्यागे मन्त्रमाह-भूः स्वाहा । भूः सत्तामात्रं चिदानन्दरसं ब्रह्मैव भवतीत्यर्थः । इति मन्त्रेण। अप्सु यथाप्राप्तेषु गङ्गादिपाथःसु परित्यज्य सद्गुरोः पादमूलमुपसृत्य श्रवणमननादिभिः स्वयंज्योतिश्चैतन्यमात्मानमन्विच्छेत्साक्षात्कुर्यात् । शास्त्रीयान्वेषणेन शिखायज्ञोपवीतपरित्यागानन्तरमुत्तरे मार्गे गमनप्रकारमाह-यथा For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy