SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २४० नारायणशंकरानन्दविरचितदीपिकाभ्यां समेता तीत्येतद्वै संधिं संध्यां ब्रह्मविद उपासत इति सोऽविमुक्त उपास्य इति ना० दी० दक्षिणे चैव कैलासो वामे कोणे हिमाचलः । निषधश्चोर्ध्वभागे तु दक्षिणे गन्धमादनः ॥ रमणो वामरेखायां सप्तैते कुलपर्वताः । अस्थिस्थानस्थितं जम्बुशाकं मज्जासु संस्थितम् ।। त्वचायां शाल्मलिद्वीपं प्लक्ष केशे प्रतिष्ठितम् । नखस्थं पुष्करं द्वीपं गोमेदं रोमसंचये ।। क्षारोदं च तथा मत्रे क्षीरे क्षीरोदसागरम् । क्षारोदधिं श्लेष्मसंस्थं मज्जायां घृतसागरम् ।। रसोदधिं रसे विद्याच्छोणिते दधिसागरम् । स्वादूदं लम्बिकास्थाने गर्भोदं शुक्रसंस्थितम् ।। नादचक्रे स्थितः सूर्यो बिन्दुचक्रे च चन्द्रमाः । लोचनाभ्यां कुजो ज्ञेयो हृदये च बुधः स्मृतः ।। कण्ठदेशे गुरुं विद्याच्छुक्रः शुक्रे व्यवस्थितः । नाभिस्थाने स्थितो मन्दो मुखे राहुः स्थितः सदा ॥ पायुस्थाने स्थितः केतुः शरीरे ग्रहमण्डलम् । विभक्तं च समाख्यातमापादतलमस्तकम्" इति ॥ तेन भ्रूघाणमध्यं धुलोकपरलोकयोः संधिः । ननु संध्यादिकर्महीनस्य योगिनः कथं ब्राह्मण्यमत आह-एतद्वै संधि संध्यामिति । एतदिति क्रियाविशेषणम् । संधि संध्येयमिति तदुपासनां कुर्वन्ति तत्रत्यपरमज्योतियानमेव ब्रह्मविदां संध्यादिफलदमित्यर्थः । सर्वस्य कर्मफलसुखस्य ब्रह्मसुखेऽन्तर्भावात् । तदुक्तं गीतायाम् "यावानर्थ उदपाने सर्वतःसंप्लुतोदके। तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः" इति ॥ उपसंहरति-स इति । स आत्माऽविमुक्ते वाराणस्यां स्थित्वाऽविमुक्ते भ्रूमध्य उपास्यो ध्येय इत्यावृत्त्या योज्यम् । इतिरुपदेशसमाप्तौ । उपासनज्ञानफलमाह शं०दी०परस्य च चिबुकावसानस्य च भूर्लोकस्यापि। चकारो लोकद्वयसमुच्चयार्थः । एतद्वै संधिमेतदेवाविमुक्तं सर्व संधीयतेऽस्मिन्निति संधिर्ब्रह्मस्वभावस्तं संधिं पूर्वोक्तभुवोघांणस्य च संधौ । संध्यामिति सप्तमी । ब्रह्मविदो ब्रह्मज्ञानकुशला उपासते साक्षात्कुर्वत इति यस्मात्तस्मादिति शेषः । सोऽविमुक्त उपास्य इति पुनरभिधानं तन्निगम For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy