SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॐ तत्सद्ब्रह्मणे नमः। चूलिकोपनिषत्। नारायणविरचितदीपिकासमेता। चूलिका चूडिका लोके स्तम्भा तीक्ष्णमुच्यते । ____ तद्वद्वेदान्तभागोऽयं चतुष्खण्डा हि पञ्चमी ॥ १ ॥ योगफलमात्मदर्शनं स चाऽऽत्माऽतिसंनिहितोऽपि कण्ठस्थहारवत्पराग्दृष्टिना गुरु विना न दृश्यत इति तद्बोधनार्थमुत्तरो ग्रन्थस्तत्र हाररूपकेणाऽऽह ॐ अष्टपादं शुचिईसं त्रिसूत्रं मणिमव्ययम् ॥ द्विवर्तमानं तेजसैद्धं सर्वः पश्यन्न पश्यति ॥ १ ॥ अष्टपादमिति। अष्टौ प्रकृतिरूपाः पादा अवयवा अस्य तमष्टपादम्। तदुक्तम् -- "भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा” इति ॥ भस्याः पादत्वं सर्वतः प्राथम्यसाम्यात् । शुचिरुज्ज्वलः । शुचिःशब्दः सकारान्तो नपुंसकः । शुचिमिति वा पाठः । हन्त्यज्ञानमिति हंसस्तम् । त्रीणि सूत्राणि धर्मार्थकामा यस्य मोक्षस्य स्वरूपानतिरेकात् । त्रयो गुणा वा तिस्रो नाड्यो वा । मणि प्रकाशत्वात् । न विविधमेत्यव्ययमेकरूपम् । द्वयोः स्थूलसूक्ष्मदेहयोर्वर्तमानं तिष्ठन्तं द्विवर्तमानम् । तेजसा प्रकाशेनेद्धं दीप्तं तेजसैद्धं छान्दसी वृद्धिः । एवंविधमात्मानं कण्ठस्थहारमिव सर्वो लोकः पश्यन्नपि न पश्यति । हारोऽप्यष्टकन्दुकावयव उज्वलो हंसलक्षणोपेतस्त्रिवृत्सूत्रो मणिमयो दृढो द्वयोर्दक्षिणोत्तरभागयोर्वर्तमानस्तेजसा दीप्तश्च भवति । सर्वो लोकस्तं पश्यन्नप्यतिसांनिध्यान्न पश्यति ॥ १ ॥ तर्हि तद्दर्शने क उपाय इत्यत आह भूतसंमोहने काले भिन्ने तमसि वैश्वरे ॥ अन्तः पश्यति सत्त्वस्थं निर्गुणं गुणगहरे ॥२॥ भूतेति । भूतमोहजनके काले कृष्णवर्ण ऐश्वर ईश्वराधिष्ठिते तमस्यज्ञाने भिन्ने नष्टे सत्यन्तरेव संनिहितं पश्यति सत्त्वस्थं बुद्धिस्थं तत्साक्षिणं तत्प्रकाश्यं वा । " दृश्यते For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy