________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोपालोत्तरतापनीयोपनिषत् । २२१ स्वरूपस्तेन हिरण्मयत्वमुक्तम् । सौम्यतन रम्यदेहम् । यद्वा सर्वत्रावयवैरवयव्युपलक्षणीयः । ध्यानान्तरमाह-वेण्विति । अस्मिन्पक्षे घनश्यामो ध्येयः । मधुराशब्दनिर्वचनमाह
मथ्यते तु जगत्सर्वं ब्रह्मज्ञानेन येन वा। तत्सारभूतं यद्यस्यां मथुरा सा निगद्यते ।
अष्टदिक्पालिभिभूमिपद्म विकसितं जगत् ।। मथ्यत इति । तत्सारभूतं तद्विषयतामापन्नं कृष्णाख्यं यद्यस्माद्यस्यां पुयां सा मथुरा निगद्यते कथ्यते । मभाति सारेण कृष्णेन संसारं सा मथुरेति व्युत्पत्त्यन्तरम् । मथुरा मधुरा पुरीति वर्णविवेकः । तेन मधुरेत्यपि भवति । 'यथा ह वै सरसि पद्म तिष्ठति तथा भूम्यां मधुरा तिष्ठति' इत्युक्तम् 'तस्यामधिष्ठितः कृष्णरूपी पूज्यस्त्वया' इति चोक्तं तत्र द्वितीयावरणं ब्रह्मस्थानीयं भूमण्डलस्वरूपं द्वितीयं पद्मरूपमष्टदिक्पालिभिरिति । पद्मत्वं च ब्रह्माण्डस्य ब्रह्मणः पद्मयोनिसमाख्यया सिद्धं ब्रह्माण्डलक्षणे पट्टे ब्रह्मणः प्रथमं जातत्वात् । अष्टौ दिशः पालयन्ति तेऽष्टदिक्पालिन इन्द्राद्यास्तैरेव विकसितं पत्रस्थानीयैर्भूमिरेव पद्मं जगद्विश्वरूपं विकसितं प्रबुद्धम् । ननु पद्ममुदकोद्भवं भवतीत्यत आह
__संसारार्णवसंजातं सेवितं सममानसैः। संसारार्णवसंजातमिति । संसारोऽर्णव इव दुरवगाहत्वात्ततः संजातमुत्पन्नम् । ननु पद्मं हंसैः सेव्यतेऽत उक्तं सेवितं सममानसैरिति । समान्तःकरणैः समदर्शि. भिर्विष्णुपरायणैः । मधुरास्थितविष्णुपीठपद्मतया सेवितमाराधितमन्यदपि पद्मं समस्तु. ल्यवर्णादिभिहसैः सेव्यते । ननु विष्णोः सर्वेश्वरस्य निकेतने सपताकेन ध्वनेन भाव्यमत आह
चन्द्रसूर्याम्बरौचित्या ध्वजो मेरुहिरण्मयः॥ चन्द्रेति । ध्वजो मेरुहिरण्मय इति । ध्वजदण्डस्थानीयो हिरण्मयो मेरुः । कस्मादिदं निश्चितमत आह--चन्द्रसूर्याम्बरौचित्येति । चन्द्रसूर्यलक्षणं यदम्बरं शुभ्रवस्त्रं पताकास्थानीयं तस्यौचित्योचितस्य भाव औचिती तया ध्वजपटस्थानीयसूर्येन्दुदर्शनान्मेरोः सुवर्णध्वजदण्डताऽनुमीयत इत्यर्थः । चन्द्रसूर्याविवौचित्येति पाठे । ननु राज्ञश्चामराम्यां भाव्यं तत्स्थानीयौ कावत आह--चन्द्रेति । चामराविति शेषः । चन्द्रसूर्यो चामराविव ज्ञेयौ । तत्र हेतुः-औचित्येति । चलत्वोज्ज्वलत्वाम्यामुचितत्वादित्यर्थः । अत्र पक्षे धजस्थानीयो मेरुरुच्चत्वात् । ____ आतपत्रं ब्रह्मलोकं ममोर्धचरणः स्मृतम् ।।
१ घ. मयोल।
For Private And Personal