________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२०९
गोपालोत्तरतापनीयोपनिषत् । आपो न विदुस्तं हीति । स्वाधिष्ठानमपि “तमापो न जानन्ति पराञ्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराङ्पश्यति नान्तरात्मन्" इति श्रुतेः । रसनेन्द्रियाद्यगम्य इत्यर्थः । सोऽहमात्मा सर्वाविषयः सर्वास्पृष्टो न भोक्तेत्यर्थः ॥ ३ ॥
गन्धवती भूमिर्गन्धभूमिभ्यां भिन्नस्तस्यां भूमौ तिष्ठति
भूमिर्न वेद तं हि स ह्यात्माऽहं कथं भोक्ता भवामि ॥ ४ ॥ एवं गन्धभूमिपर्यायोऽपि ॥ ४ ॥ सविषयबाह्येन्द्रियानात्मतां तदसंगतां तदग्राह्यतां चोक्त्वा मनसोऽपि त्रितयाभावं दर्शयति
इदं हि मनस्तेष्वेवं हि मनुते तानिदं गृह्णाति इदं हीति । तेषु विषयेष्वाकाशादिषु । एवं बाह्येन्द्रियवन्मनुते संकल्पविकल्पान्कुरुते । तानाकाशादीन्विषयानिदं मनो गृह्णाति ।
यत्र हि सर्वमात्मैवाभूत्तत्र वा कुत्र मनुते क वा गच्छ
तीति स ह्यात्माऽहं कथं भोक्ता भवामि ॥५॥ यत्रेति । यत्र हि परमार्थदशायां तुरीयेऽस्मदादीनां सुषुप्ते वा भवदादीनामज्ञानिनां सर्वमात्मैवाभूजगत्तत्र । वाशब्दो ह्यर्थे । तत्र हि कुत्र विषये मनुते मननं कुर्यात् । क वा कुत्र वा विषये गच्छति प्रवर्तत इति भेदाभावात् । अनेन मनोविकारा अपि कामादयो मयि न स्पृष्टा इति दर्शितं सोऽहमात्मा सर्वातीतः कथं भोक्ता भवामि ॥ ५॥ स्वस्याभोक्तृत्वमुक्त्वा कृष्णस्य ब्रह्मचारितामप्युपपादयति
अयं हि कृष्णो यो वो हि पृष्टः शरीरद्वयकारणं भवति द्वौ सुपर्णी भवतो ब्रह्मणोंऽशभूतस्तथेतरो भोक्ता
भवति । अन्यो हि साक्षी भवतीति ॥ ६ ॥ अयं हि कृष्ण इति । यो वो हि पृष्टः । युष्मत्संबन्धिप्रश्नविषयः स शरीरद्वयस्य स्थूलसूक्ष्मस्य कारणं हेतुर्भवति स एव द्वौ सुपर्णौ भवतः। “तदैक्षत बहु स्यां प्रजायेति । अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" इति श्रुतेः।
"अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत्" इति स्मृतेश्च ॥ तदेवाऽऽह-ब्रह्मणोऽशभूतः । अंश इवांशस्तत्त्वं प्राप्तः । तथेतरो भोक्ता भवति
१ ग. "तीयं भू।
।
For Private And Personal