SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २०० नारायणविरचितदीपिकासमेतान वेदय बोधयेत्येवं ते मुनयः पप्रच्छु: पृष्टवन्तः ।, तत्स्वरूपसंबोधने ह प्रसिद्धौ । उवाचोक्तवान् । ब्राह्मणो ब्रह्माऽसौ पूर्वोक्तः । किमुवाचेत्याह अनवरतं मया ध्यातस्ततः परार्धान्ते सोऽबुध्यत गोपवेषो मे पुरस्तादाविर्बभूव ततः प्रणतो मया, अनवरतं निरन्तरम् । मया ध्यातः स्तुतः स्तुतिविषयीकृतः परार्धान्ते “ पञ्चाशद्रपवर्षाणि परार्धमभिधीयते " इति विष्णुस्मरणाद्ब्रह्मणः पञ्चाशद्वर्षावसाने स कृष्णोऽबुध्यत बुद्धवान्मां ध्यायतीति चिन्तितवान् । चिन्तयित्वा गोपवेषो गोपस्येव वेषो यस्य तादृशः सन्मे मम पुरस्तादन आविर्बभूव प्रकटीभूतो गोपवेषधरस्तेन सनातनः । ततस्तदनन्तरं प्रणतो नमस्कृतो मया ब्रह्मणा कृतनमस्कारः संश्च । अनुकूलेन हृदा मह्यमष्टादशार्ण स्वरूपं सृष्टये दत्त्वाऽन्तर्हितः पुनः सिमृक्षा मे प्रादुरभूत्तेष्वक्षरेषु भविष्यज्जगद्रूपं प्रकाशयंस्तदाह तदाह ॥५॥ अनुकूलेन हृदा मह्यमष्टादशार्ण स्वरूपं सृष्टये दत्त्वाऽन्तर्हित इति। अनुकूलेन दयाइँण हृदा मनसा मह्यं ब्रह्मणेऽष्टादशाण मन्त्ररानं खरूपं श्रीकृष्णरूपमेव मन्त्रमयत्वाद्देवतायाः “देवतागुरुमन्त्राणां भावयेदैक्यमात्मना" इति स्मृतेर्मूलेन कल्पयेदिति च स्मृतेः सृष्टये सृष्टयर्थ दत्त्वा प्रदान्तर्हितोऽप्रत्यक्षो बभूव पुनस्तपःफलप्राप्त्यनन्तरं सिसृक्षा स्रष्टुमिच्छा मे मम प्रादुरभूत्प्रादुर्भूता। तेष्वक्षरेषु भविष्यज्जगद्रूपं प्रकाशयंस्तदाहेति तेष्वष्टादशवक्षरेषु भविष्यद्भावि जगतो रूपमाकाशादि प्रकाशयन्प्रकटीकुर्वब्रह्मा तज्जगदाह वक्तीति श्रुतेर्वचः । प्राकाशयं तदिहेति युक्तः पाठः । तज्जगदिह प्राकाशयं प्रकटितवानहमित्यर्थः । तदाह प्रकारमेवाऽऽह ब्रह्मोत्तरग्रन्थेनेति श्रुते. र्वचः ॥५॥ पञ्चपदानां क्रमेण सृष्टिविभागमाह ___आकाशादापो जलात्पृथ्वी ततोऽग्निर्बिन्दोरिन्तुः, आकाशादिति । आकाशादापो वायुतेजोद्वारेति बोद्धव्यम् । " तस्मादात्मन आकाशः संभूत आकाशाद्वायुयोरग्निरग्नेरापोऽद्भयः पृथिवी" इति श्रुत्यन्तरात् । ततोऽ. ग्निस्ततः पृथिव्या अग्निरिदं स्थूलाग्न्यभिप्रायमम्बरस्थपाषाणकाष्ठादौ निमित्तत्वेनाग्न्युत्पत्तिदर्शनात् । बिन्दोर्नलैकदेशादिन्दुश्चन्द्रः । ___तत्संपातादर्कः, तत्संपातादर्क इति । तेषां पृथिवीजलतेजसां संपातासंयोगादकः सूर्यः । घनत्वात्पार्थिवभागो नलाकर्षणादुदकभाग उष्णत्वात्तेनोभागः । सूर्य इव इन्दौ यद्यपि तेज For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy