SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नारायणविरचितदीपिकासमेतातदुक्तम्- "रूपमारोग्यमर्थाश्च भोगांश्चैवाऽऽनुषङ्गिकान् । ददाति ध्यायतो नित्यमपवर्गप्रदो हरिः" इति । एतस्मादन्ये पञ्चपदादभूवनगोविन्दस्य मनवो मानवानाम् । दशार्णाधास्तेऽपि संक्रन्दनायैरभ्यस्यन्ते भूतिकामैर्यथावत् ॥ एतस्मादिति । मानवानां हितायेति शेषः । दशार्णाद्या दशाक्षराद्याः पूर्वोक्ता मनवो मन्त्रा अभूवन्नित्यर्थः । तेऽपि मन्त्राः । संक्रन्दनायैः संक्रन्दयति रिपुत्रीरिति व्युत्पत्त्या संक्रन्दन इन्द्रः । ‘संक्रन्दनो दुश्चयवनः' इत्यमरात् । तत्प्रभृतिभिः । भूतिकामैः श्रीकामैर्यथावन्यासादिपूर्वकमभ्यस्यत उपास्यते । तेषामानन्त्येऽपि कति. पयानामुपासनान्युच्यन्ते । तस्य दशाक्षरस्य यथा "गोपीजनान्ते प्रवदेवल्लभायाग्निसुन्दरी। अयं दशाक्षरो मन्त्रो दृष्टादृष्टफलप्रदः ।। अस्य मुन्यादिपूजान्तमष्टादशार्णवत् । जपस्त्वद्रिशृङ्गे नद्यास्तटे बिल्वमूले तोये हेदस्थे गोकुले विष्णुगृहेऽश्वत्थस्याधस्तादम्बुधेश्च तोरे । स्थानेष्वेतेष्वासीन एकैकशस्तु प्रजपेदयुतचतुष्कं दशाक्षरं मनुवरं पृथक्क्रमशः । अष्टादशाक्षरं चेदयुतद्वयमित्युदीरिता संख्या । शाकमूलफलगोक्षीरगोदधिभैक्षसक्तुक्षरेयाणि क्रमेण भोजनमिति पूर्वसेवा । ततो दशलक्षैः पुरश्चरणं त्रिमधुराक्तारुगाम्बुनैर्दशांशहोमस्तावदेव तर्पणं तद्दशांशेन ब्रह्मभोजनं दशांशमार्जनम् । आचक्राय विचक्राय सुचक्राय त्रैलोक्यरक्षणचक्रायासुरान्तकचक्रायेति पञ्चाङ्गानि । वर्णाक्षरैर्वा सबिन्दुभिर्दशाङ्गानि । वर्णन्या. सादिकं तत्पटलादेव ज्ञेयमिति दशाक्षरविधिः । षडों यथा-" स्मरः कृष्णाय उद्दण्डषडों मनुरीरितः " भस्य सर्व दशाक्षरवज्जपस्तु लक्षम् । षोडशाणों यथा "प्रणवं हृदयं कृष्णं डेन्तमुक्त्वा ततः परम् । तादृशं देवकीपुत्रं हुंफट्स्वाहासमन्वितम् ॥ षोडशाक्षरमन्त्रोऽयं गोविन्दस्य समीरितः ॥ हृदयं नमःपदं डेन्तं कृष्णं कृष्णायेति तादृशं डेन्तं देवकीपुत्रायेति । सर्वमस्य दशाक्षरवज्ज्ञेयम् । द्वात्रिंशदों यथा "पिण्डं रतिपते/जं नमो भगवते ततः । नन्दपुत्राय बालादिवपुषे श्यामलाय च ॥ १ क. हृदिस्थे । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy