SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गर्भोपनिषत् । १८१ तस्यापि । परिमाणं पानपरिमाणम् । अशितपीतपरिमाणं मूत्रपुरीषं ततोऽनियतपरिमाणमित्यर्थः । इदानीमस्य शास्त्रस्य मलमूत्रादिपरिमाणाभिधायित्वेनानादेयत्वं प्राप्तं वारयति पैप्पलादं मोक्षशास्त्रं परिसमाप्तं पैप्पलादं मोक्षशास्त्रं परिसमा. तम् ॥ १२ ॥ ॐ भद्रं कर्णेभिः । सह नाविति शान्तिः । इति *गर्भोपनिषत्समाप्ता ॥ १० ॥ पैप्पलादं पिप्पलादेन वशिष्यान्मोक्षकामिनः प्रत्युक्तं पैप्पलादम् । मोक्षशास्त्रं मोक्षस्याविद्यादिनिवृत्तिरूपस्य हितस्य शासनान्मोक्षशास्त्रम् । परिसमाप्तं सर्वतः समाप्ति गतम् । पैप्पलादं मोक्षशास्त्रं परिसमाप्तम् । व्याख्यातम् । वाक्याभ्यास उपनिषसमाप्त्यर्थः ॥ १२ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यानन्दात्मपूज्यपादशिष्यस्य श्रीशंकरा नन्दभगवतः कृतिर्गर्भोपनिषद्दीपिका समाप्ता ॥ १५ ॥ * अस्या अमृतगर्भोपनिषदित्यपि नाम । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy