SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गर्भोपनिषत् । नानायोनिसहस्राणि दृष्ट्वा चैव ततो मया । आहारा विविधा भुक्ताः पीताश्च विविधाः स्तनाः ॥५॥ नानेति । इतोऽस्याभिलाषमाह--आहारा इति । विविधाः श्वशूकरादिभोग्या अपि । पीताश्चेति नानायोनिषु जातत्वात् ॥ ५ ॥ जातस्यैव मृतस्यैव जन्म चैव पुनः पुनः । __ अहो दुःखोदधौ मनो न पश्यामि प्रतिक्रियाम् ॥ ६॥ मृतस्यैवेति शरीरं कस्मादिति प्रश्नस्य शीर्यते इति व्युत्पत्त्योत्तरम् । जन्मेति । जन्मनः प्रादुर्भाव एको जन्मान्तरं वा द्वितीयं जन्म ॥ ६ ॥ यन्मया परिजनस्यार्थे कृतं कर्म शुभाशुभम् ॥ एकाकी तेन दह्यामि गतास्ते फलभोगिनः ॥ ७॥ परिजनस्य पुत्रकलत्रादेः । एकाकीति । कर्तुरेव पापसंबन्धो नार्जितद्रव्यभोक्तुरित्यत्रार्थ इदं लिङ्गम् ॥ ७ ॥ यदि योन्यां प्रमुञ्चामि सांख्यं योग समभ्यसेत् ॥ अशुभक्षयकर्तारं फलमुक्तिप्रदायिनम् ॥ ८॥ यदि योन्यां प्रमुञ्चामि तं प्रपद्ये महेश्वरम् ॥ अशुभक्षयकर्तारं फलमुक्तिप्रदायिनम् ॥ ९ ॥ यदीति । हरिहरयोरविशिष्टं भुक्तिप्रदत्वमत्रार्थ इदं लिङ्गम् । अभ्यसेदभ्यसेयम् ॥ ८॥९॥ जन्तुः स्त्रीयोनिशतं योनिद्वारि संप्राप्ते यत्रेणाऽऽपीड्यमानो महता दुःखेन ___ अथ प्रसूतिवायुनाऽधोमुखत्वं नीतो योनियन्त्रेण संकोचमानगात्रो दुःखेन जन्ममर• णानि न स्मरतीत्यग्रेतनेन संबन्धः । जातस्य ततोऽस्मरणे हेत्वन्तरमाह जातमात्रस्तु वैष्णवेन वायुना संस्पृश्य तदा न स्मरति जन्ममरणं न च कर्म शुभाशुभम् ॥ १० ॥ जातेति । वायुना मायारूपेण । १ ख. नाः । मातरो विविधा दृष्टाः पितरः सुहृदस्तथा । अवाङ्मुखं पीड्यमानो जन्तुश्चैव समन्वितः । जा । २ क. ग. म् । यदि । ३ ख. लभागि । ४ क. ग. गं वा समाश्रये । । ५ क. ग. म् । यदि योन्यां प्रमुश्चामि तं प्रपद्ये भगवन्तं नारायणं देवम् । अशुभक्षयकर्तारं फलमुक्तिप्रदायिनम् । यन्मया परिजनस्यार्थे कृतं कर्म शुभाशुभम् । एकाकी तेन दह्यामि गतास्ते फलभोगिनः । ज। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy