SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॐ तत्सद्ब्रह्मणे नमः । गर्भोपनिषत् । नारायणविरचितदीपिकासमेता । गर्भसंस्था निरूप्याऽत्र गर्मोपनिषदित्यतः । पञ्चखण्डाऽष्टमी मुण्डात्पैप्पलादाभिधा तथा ॥ गर्भवासान्मुच्यत इत्युक्तं तत्र को गर्भः कथं च तत्र वास इत्यपेक्षायां संसारवैराग्यार्थ च जन्ममरणादिदुःखं निरूपणीयमिति गर्भोपनिषदारभ्यते । तत्र गर्भस्य मातापितृशरीरापेक्षत्वात्प्रथमं शरीरस्वरूपमाह ॐ भद्रं कर्णेभिः । सह नाविति शान्तिः॥ ॐ पञ्चात्मकं पञ्चसु वर्तमानं षडाश्रयं षड्गुणयोगयुक्तम् । तत्सप्तधातु त्रिमलं द्वियोनि चतुर्विधाहारमयं शरीरम् ॥ १॥ पश्चात्मकं पञ्चभूतात्मकम् । पञ्चसु धारणादिषु शब्दादिप्वानन्दादिषु च वर्तमानम् । पञ्चस्वित्यत्र वीप्सा द्रष्टव्या । प्रश्नोत्तरपञ्चकानां त्रित्वात् । षडाश्रयं षण्णां मधुरा. दिरसानामाश्रयमाश्रयतीत्याश्रयम् । पचाद्यच् । षड्सभोगायतनमित्यर्थः । षड्गुणयोगयुक्तं पण्णां गुणानां षड्नादिसप्तखरविशिष्टरागाणां योगः स्वस्त्रीभी रागिणीभिः परस्परं संबन्धस्तेन युक्तं गानादिकलाकुशलत्वात् । सप्त शुक्लादिगुणा रसादयो धातवो यस्मिंस्तत्सप्तधातु । कबभावो बहुव्रीहौ । अग्रे तु कपि सप्तधातुकमिति निर्देशः शेषाद्विभाषेति । त्रिमलं त्रयो मला नखलोमकेशा यत्र । तत्र भूजादीनां त्वशितपीतमलत्वातद्देहमलत्वम् । अथवा कफादीनां श्लेष्मादिरूपाणां मलत्वात् । द्वियोनि द्वयोर्माता. पित्रो?निरुत्पत्तिर्यस्य । चतुर्विधाहारमयं लेह्यपेयखाद्यचोप्यलक्षणचतुर्विधाहारविकार इत्यर्थः ॥ १ ॥ भवति पश्चात्मकमिति कस्मात् , पृथिव्यापस्तेजो वायुराकाशमित्यस्मिन्पश्चात्मके शरीरे। गुरुणा प्रतिज्ञाते शिष्यो विशेषज्ञानाय पृच्छति पञ्चात्मकं कस्मादिति । अत्र पञ्चसु वर्तमानं कथमित्यपि प्रश्नो द्रष्टव्यः । उत्तरानुरोधात् । इतिशब्दान्तमुत्तरम् । का पृथिवी का आपः किं तेजः को वायुः किमाकोशम् । १ क. 'म् । तं सप्त' । २ क. ग. काशमित्यस्मिन्पश्चात्मके शरीरे य। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy