SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५४ नारायणविरचितदीपिकासमेता "यदा तु योगिनो बुद्धिस्त्यक्तुं देहमिमं भवेत् । तदा स्थिरासनो भूत्वा मूलाच्छक्तिं समुज्ज्वलाम् ॥ सूर्यकोटिप्रतीकाशां भावयेचिरमात्मनः । आपादतलपर्यन्तं प्रसृतं जीवमात्मनः ॥ संहत्य क्रमयोगेण मूलाधारपदं नयेत् । तत्र कुण्डलिनी शक्तिं संवर्तानलसंनिभाम् । जीवं निजं चेन्द्रियाणि ग्रसन्ती चिन्तयेद्धिया । संप्राप्य कुम्भकावस्थां तडिज्ज्वलनभासुराम् ।। मूलाधाराद्यतिर्देवि स्वाधिष्ठानपदं नयेत् । तत्रस्थं जीवमखिलं ग्रसन्ती चिन्तयेद्वती। तडित्कोटिप्रतीकाशां तस्मादुन्नीय सत्वरम् । मणिपूरपदं प्राप्य तत्र पूर्ववदाचरेत् ॥ तत्र स्थित्वा क्षणं देवि पूर्ववद्योगमार्गवित् । अनाहत नयेद्योगी तत्र पूर्ववदाचरेत् ॥ ततो विशुद्धादानीय कुण्डली पूर्ववच्चरेत् । उन्नीय तस्मादमध्ये नीरक्षीरं ग्रसन्पुनः ॥ ग्रस्त क्षीरं महाशक्त्या कोटिसूर्यसमप्रभम् । मनसा सह वागीश्या भित्त्वा ब्रह्मार्गलं क्षणात् ॥ परामृतमहाम्भोधौ विश्रान्ति तत्र कारयेत् ।। तत्रस्थं परमं देवं शिवं परमकारणम् ॥ शक्त्या सह समायोज्य तयोरैक्यं विभावयेत् " इति । ज्ञातमुत्क्रान्तिकालं वञ्चयित्वा यदि जीवितुमिच्छेत्तदाऽवरोहं कुर्यादित्यपि तत्रोक्तं तद्यथा “यदि वञ्चितुमुद्युक्तः कालं कालविभागवित् । कालस्तु यावद्वजति तावत्तत्र सुखं वसेत् ॥ ब्रह्मद्वारार्गलस्याधो देहं कालप्रयोजनम् । तस्मादूर्ध्वं पदं देयं(हं) न हि कालप्रयोजनम् ॥ यदा देव्यात्मनः कालमतिक्रान्तं प्रपश्यति । तदा ब्रह्मार्गलं भित्त्वा शक्तिं मूलपदं नयेत् ॥ १ ख. 'गकृत् । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy