________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ॐ तत्सद्ब्रह्मणे नमः।
कैवल्योपनिषत् ।
-
-
नारायणशंकरानन्दविरचिताभ्यां दीपिकाभ्यां समेता।
ॐ भद्रं कर्णेभिः शृ० । ॐ शान्तिः शान्तिः शान्तिः ॥ अथाऽऽश्वलायनो भगवन्तं परमेष्ठिनमुपसमेत्सोवाच । अधीहि भगवन्ब्रह्मविद्यां वरिष्ठां सदा सद्भिः सेव्यमानां निगूढाम् ॥ ययाऽचिरात्सर्वपापं व्यपोह्य परात्परं पुरुषं याति विद्वान् ॥ १ ॥
अथ नारायणविरचितदीपिकाप्रारम्भः । कैवल्योपनिषद्ब्रह्मशतरुद्रियसंज्ञिका। .
एकचत्वारिंशत्तमी संघे खण्डद्वयान्विता ॥ १ ॥ साधनोपदेशप्रकरणत्वाजावाले शतरुद्रियेणेति शतरुद्रियं ब्रह्मज्ञानसाधनत्वेन विनियुक्तं तत्किखरूपमित्यपेक्षायां सेतिहासं तत्कैवल्योपनिषदि प्रदृश्यते-आश्वलायन इत्यादि । अश्वलस्यापत्यमाश्वलायनो नडादिफगन्तः । परमे तिष्ठति परमेष्ठी ब्रह्मा तम् । अधीह्यादिविद्वानित्यन्त एको मन्त्रः । एतदादयः सप्त वृत्तमन्त्रास्ततश्चतस्रोऽनुष्टुभस्ततस्त्रीणि सार्धानि वृत्तानि । ततः पञ्चानुष्टुभः पुनस्त्रीणि सार्धानि वृत्तानि । एतावच्छतरुद्रियम् । यः शतरुद्रियमित्यादिः फलावबोधको द्वितीयः खण्डः। तत्रास्पष्टपदानि स्पष्टी क्रियन्ते । सदा सद्भिः साधुभिः । यतिभिरिति क्वचित्पाठः । अचिरादविलम्येन । सर्वपाशं सर्ववन्धनं व्यपोह्य निराकृत्य । याति प्राप्नोति । क्वचिदुपैतीति पाठः ॥ १ ॥
अथ शंकरानन्दविरचितदीपिकाप्रारम्भः । कैवल्याख्योपनिषदं कैवल्यार्थावबोधनीम् । __ व्याख्यास्ये केवलस्तेन कैवल्यात्मा प्रसीदतु ॥ १ ॥ भगवती श्रुतिर्मातेव सुखप्रतिपत्त्यर्थं कंचनाऽऽश्वलायनमुररीकृत्याऽऽख्याथिकामव. तारयति ब्रह्मविद्यायामास्तिक्यं जनयितुम्-अथेति । अथ साधनचतुष्टयसंपत्त्यनन्तरम् । आश्वलायन ऋग्वेदाचार्यः । भगवन्तं पूजावन्तं परमेष्टिनं सर्वोत्कृष्टस्थाननि
१°ष्ठिनं परिसमे इति क्वचित्पुस्तके पाठः । २ ङ. यतिभिः । ३ ख. छ. 'पाशं व्य' । ४ क. ग. च. ज. श. म. रुषमुपैति । ५ छ. प्रयाति ।
For Private And Personal