SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir आरुणेय्युपनिषत् । तद्विभासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदमित्येवं निर्वाणानुशासनं वेदानुशासनं वेदानुशासनमिति ॥ ५ ॥ भ्यमित्याशङ्कय गुरूपदेशादित्याह-तद्विप्रास इति । छान्दसोऽसुक् । ब्राह्मणानामेवोपदेशाधिकार इति विप्रग्रहणेन सूचितम् । विपन्यवो विमन्यवः । छान्दसो वर्णव्यत्ययः । कामक्रोधादिरहिताः । पन स्तुतौ पन्युः स्तुतिस्तद्रहितास्तुल्यनिन्दास्तुतय इति वा । जागृवांसस्त्यक्ताज्ञाननिन्दाः । तदुक्तम्-“या निशा सर्वभूतानां तस्यां जागर्ति संयमी" इति । समिन्धते सम्यग्दीपयन्ति परहिताय प्रकाशयन्ति । किं तत् । यद्विष्णोः परमं पदं पदनीयं मुक्तोपसृप्यं स्थानं स्वरूपात्मकमेव । विप्रोपदेशादेव तल्लभ्यमिति भावः । इतिशब्दो मन्त्रद्धयसमाप्त्यर्थः । उपसंहरति-एवं निर्वाणानुशासनमिति । वातेभीवे क्तः । निर्वाणो वात इति निष्ठानत्वं निर्वाणमुपशान्तिर्मोक्ष इति यावत् । तस्यानुशासनमेवं द्रष्टव्यम् । ननु किमिदं प्रजापतेरनुशासनमोमिति चेत्तथा सति पौरुषेयत्वेनाप्रामाण्यशङ्का स्यादित्याशङ्कयाऽऽह-वेदानुशासनमिति । आरुणिप्रजापत्या. ख्यायिका तु विद्यास्तुत्यथैव । वेदस्य शब्दराशेः सर्वज्ञस्य सर्ववर्णाश्रमादिव्यवस्थाहेतो राजकल्पस्यानुशासनम् । तदकरणे संसारमूले तस्करादेरि निक्षेपः स्यात् । अभ्यासोऽन्येषामपि वेदानामेतावदर्थपर्यवसायित्वमित्येतदर्थः । इतिशब्द उपनिषत्समाप्त्यर्थः ॥ ५॥ नदुक्तं वैष्णवपदम् । विप्रासो विप्रा द्विजोत्तमाः । विपन्यवो विमन्यवः कामक्रोधादिरहिताः कृतसंन्यासाः परमहंसा इत्यर्थः। जागृवांसो जागरणवन्तोऽज्ञाननिद्रारहिता इत्यर्थः । समिन्धते सम्यग्दीप्यन्तेऽस्मदादीन्प्रति कथयन्तीत्यर्थः । तच्छब्दार्थमाह । विष्णोयत्परमं पदम्।यत्प्रसिद्धं सर्वेषु वेदेषु । व्याख्यातमन्यत् । इत्युपनिषदर्थपरिसमाप्त्यर्थः। एवमुक्तेन प्रकारेण । निर्वाणानुशासनं निर्गतमपगतं काणं वाति गच्छति दुर्गन्धं बा धारयति वण शब्द इत्यभिधानाच्छब्दान्करोति वेति वाणं शरीरं निर्गत वाणं शरीरं यस्मिन्मोक्षे निर्वाणस्तदर्थ संसारासारताबुद्धेरनुशासनं सज्ञ इवाऽऽज्ञारूपं तदकरणे संसारशूले प्रक्षेपः स्यादित्यर्थः । ननु कस्येदमनुशासनमित्यत आह। वेदानुशासनं वेदस्य भगवतः शब्दराशेः सर्वज्ञस्य वर्णाश्रमादिव्यवस्थाहतो राजकल्पस्यानुशासनम् । बेदानुशासनम् । व्याख्यातम् । अभ्यास उपनिषत्समाप्त्यर्थः । इत्युपनिषदन्तरस्याप्येनावदर्थपर्यवसायित्वमित्येतदर्थ इतिशब्दः ॥ ५ ॥ १ घ. 'रशूलेन त । २ घ. व विनि । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy