SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॐ तत्सद्ब्रह्मणे नमः । आरुणेय्युपनिषत् । नारायणशंकरानन्दविरचितदीपिकाभ्यां समेता । ॐ आरुणिः प्रजापतेर्लोकं जगाम तं गत्वोवाचं केन भगवन्कर्माण्यशेषतो विसृजीनीति तं अथ नारायणदीपिकारम्भः । आरुणेयी पञ्चविंशी खण्डपञ्चकमण्डिता । प्रतिखण्डं द्विरुक्तिश्च खण्डावसितिसूचिका ॥ १ ॥ त्रिदण्डिसंन्यास उक्त इदानी सर्वपरित्यागरूपं परमहंससंन्यासमुपदेष्टुमारुण्युपनिषदारभ्यते-आरुणिरिति । आख्यायिका विद्यास्तुत्यर्थी विद्वत्संन्यासोऽस्या विषयः । विष्णुपददर्शनं प्रयोजनम् । विद्वत्संन्यासस्य चित्ताविक्षेपेणाऽऽत्मनो निरन्तरानुसंधानं प्रयोजनम् । विद्वान्विवित्सुरधिकारी । यायोगं संबन्ध उह्यः । अरुणस्यापत्यमारुणिः प्रजापतेर्ब्रह्मणः केनोपायेन भगवन् "ऐश्वर्यस्य समग्रस्य धर्मस्यःयशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा" || तद्वांस्तेन प्रश्नाहतोक्ता । कर्माणि संसृतिनिमित्तानि । इतिः प्रश्नसमाप्तौ । तं ___ अथ शंकरानन्ददीपिकारम्भः । आरुणेयोपनिषदं व्याख्यास्ये न्यासमार्गगाम् । आनन्दात्मानमायान्तीं गङ्गामिव पयोनिधिम् ।। विषयादेश्च सर्वोपनिषदां साधारण्यान्न पृथग्वर्णनीयता । आत्मज्ञाने संन्यासेऽत्यन्तमास्तिक्यं जनयितुमाख्यायिकामवतारयति-आरुणिर्नामतः प्राजापत्यः सौपर्णेयः । प्रजापतेः प्रजानां पालयितुः स्वपितुः । लोक निवासस्थलम् । जगाम गतवान् । तं लोकं गत्वा प्राप्य । उवाच प्रजापतिं पितरमुक्तवान् । तदुक्तिमाह-केन प्रश्नार्थः किंशब्दः । पृच्छामि त्वां केनोपायेन । भगवन्हे पूजावन् । कर्माणि श्रौतस्मार्तान्यनेकभेदभिन्नानि । अशेषतोऽशेषाणि । विसृजानि परित्यजानि इत्यनेन प्रकारेण । १ घ. ॐ भद्रं कर्णेभिः । आ'। २ घ. 'णिः प्राजापत्यः प्र” । ३ क. च भगवन्केन कर्मा । ४ क. ग. घ. जामीति । ५ ख. न्यासो वि। ६ घ. योग्यं सं। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy