________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 671 इदं च पुरतो वत्म यद्यहं ते विचारये // ततो जन्म ममात्येति न विचारस्य निष्ठितिः / तेनेदं ते समासेन प्रविभज्य निवेद्यते // ज्ञानदर्शनचारित्रलक्षणो ह्यान्तरो मतः / विदद्भिनिर्वृतेर्मार्गः प्रगुण: सुपरिस्फुटः // . म दृष्टः पर्वतारूढेर्न दृष्टो भूमिवामिभिः / तेनैते तत्र गन्तारो न गान्तरो भुवि स्थिताः // तदेते कथितास्तुभ्यं भवचक्रे मया जनाः / ये मिथ्यादर्शनाख्येन तेन भद्र विडम्बिताः / प्रकर्षः प्राह मामेदं भवचक्रं मया पुरम् / सवें विलोकितं दृष्टं वौर्यमान्तरभूभुजाम् // केवलं तदिदं ज्ञातं महाहास्यकरं परम् / आभाषक जगत्यत्र यहालैरपि गोयते // गन्त्रीमनुष्यमामय्या यो वधमाहरिष्यति / तस्यैव विस्मृता हन्त सा वधरिति कौतकम् // तथाहि। महामोहादिजेतारो महात्मानो नरोत्तमाः / द्रष्टव्या भवचक्रेत्र सन्तोषसहिताः किल / एतदर्थमिहायातौ मामावामत्र पत्तने / न दृष्टास्ते महात्मानो न च सन्तोषभूपतिः // अतोऽधुनापि तान्मामो मदनुग्रहकाम्यया / गत्वा ते यत्र वर्तन्ते तत्रस्थान् दर्शयत्वस्वम् / For Private and Personal Use Only