________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / सर्वत्रगश्च यो भट्र स व गच्छेत्कुतोऽपि वा // नश्वरोऽपि विनष्टत्वान्न तस्यां गन्तुमर्हति / तस्मादेते न जानन्ति मार्ग तस्थास्तपखिनः // लोकायतास्तु दूरेण वर्तन्ते वत्म निर्वतेः / ये हि पापहतात्मानो निराकुर्वन्ति तामपि / किं च / लोकायतमतं प्राज्ञेयं पापौघकारणम् / निईन्दानन्दपूर्णया निर्वृतेः प्रतिषेधकम् // तस्माद्दुष्टाशयकर लिष्टमत्त्वविचिन्तितम् / पापश्रुतं सदा धोरैर्वज्यं नास्तिकदर्शनम् // परमार्थन मा वत्म नेष्टा मौमांसकैरपि / यैः सर्वज्ञं निराकृत्य वेदप्रामाण्यमौरितम् // तदेवमेते सर्वेऽपि भूमिष्ठपुरवासिनः / अनेन कारणेनोक्ता मिथ्यादर्शनमोहिताः // एते तु शिखरारूढाः पुरे वास्तव्यका जनाः / यं वदन्ति स निर्मिथ्यो निर्वृते: प्रगुण: पथः // ततश्च / यथावस्थितमन्मार्गवेदिनां वीर्यशालिनाम् / महत्तमो न बाधायै मिथ्यादर्शननामकः // ज्ञानश्रद्धानपूतास्ते निःस्पृहा भवचार के / चारित्रयानमारुह्य निर्वृति यान्ति मानवाः // यथा च सन्मार्गोऽयं यथा चान्ये न तदिधाः / For Private and Personal Use Only