________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / क्रियायां प्रवर्तकं वचनमाहुर्यथाग्निहोत्रं जुहुयात्वर्गकाम इत्यादि / तेन धर्मो लक्ष्यते नान्येन प्रमाणेन प्रत्यक्षादीनां विद्यमानोपलम्भनत्वादिति / प्रत्यक्षानुमानशब्दोपमानार्थापत्त्यभावाः षट् प्रमाणानौति मौमांसकमतसमामः // अमौभिः पुनर्वत्म विवेकमहापर्वतारूढरप्रमत्तत्वशिखरस्थितैजैनपुरनिवासिभिर्जनलोकैरयं दृष्टो निर्वतिनगरीगमनमार्गः / यदुत जौवाजोवासवसंवरनिर्जरामोक्षास्तत्त्वं / तत्र सुखदुःखज्ञानादिपरिणामलक्षणो जीवः / तईिपरीतस्त्वजीवः / मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः / स श्रास्त्रवः / श्रावकार्य बन्धः / श्रास्रवविपरीतः संवरः / संवरफलं निर्जरा / निर्जराफलं मोक्ष इत्येते सप्त पदार्थाः। तथा विधिप्रतिषेधानुष्ठानपदार्थाविरोधश्च / अत्र जैनदर्शने स्वर्गकेवलार्थिना तपोध्यानादि कर्तव्यं / सर्व जौवा न हन्तव्या इति वचनात् / सततममितिगुप्तिशुद्धा क्रिया / असंपन्नो योग इति वचनात् / उत्पादविगमध्रौव्ययुक्तं सत् / एक द्रव्यमनन्तपर्यायमर्थ इति / प्रत्यक्षपरोक्षे हे एव प्रमाणे इति जैनमतस्य दिगदर्शनमात्रम् // तचैते प्रथमास्तावच्चत्वारो वत्म वादिनः / नैयायिकादयो नैव निर्व तेर्मार्गवेदकाः / यतः। एकान्तनित्यमिच्छन्ति पुरुषं तत्र गामुकम् / सर्वचगं च वाञ्छन्ति तथान्ये क्षणनश्वरम् // नित्यश्चासौ कथं गच्छेत्तस्थामविचलो यतः / For Private and Personal Use Only