________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उयमितिभवप्रपञ्चा कथा / नाशयति / तथात्मापि तथाविध एव पुङ्गलश्चासावभिधीयते // _____ सौत्रान्तिकमतं पुनरिदं / रूपवेदनाविज्ञानसंज्ञासंस्काराः सर्दशरीरिणामेते पञ्च स्कन्धा विद्यन्ते / न पुनरात्मा / त एव हि परलोकगामिनः / तथा क्षणिकाः सर्वे संस्काराः खलक्षणं परमार्थतः / अन्यापोहः शब्दार्थः / सन्तानोच्छेदो मोक्ष इति // योगाचारमतं विदं। विज्ञानमात्रमिदं भुवनं / न विद्यते बाह्यार्थः। वासनापरिपाकतो नौलपीतादिप्रतिभासाः। श्रालयविज्ञानं सर्ववासनाधारभूतं / श्रालयविज्ञानविद्धिरेव चापवर्ग इति // माध्यमिकदर्शने तु सर्वशून्यमिदं स्वप्नोपमः प्रमाणप्रमेयप्रविभागः / मुक्तिस्तु शून्यतादृष्टिस्तदर्थं शेषभावना इति बौद्धविशेषाणं मतसंक्षेपार्थः // ___ लोकायतैः पुनर्वत्स मा निर्वृतिनगरौ नास्तीति प्रख्यापितं लोकायते। अमौ ब्रुवते / नास्ति निर्व तिर्नास्ति जीवो नास्ति परलोको नास्ति पुण्वं नास्ति पापमित्यादि। किं तर्हि पृथिव्यापस्तेजो वायुरिति तत्त्वानि तत्समुदाये शरोरेन्द्रियविषयसंज्ञा / तेभ्यश्चैतन्यं मद्याङ्गेभ्यो मदशक्तिवत् / जलबुडुदवज्जीवाः / प्रवृत्तिनिवृत्तिसाध्या प्रौतिः पुरुषार्थः / म च काम एव नान्यो मोक्षादिः। तस्मानान्यत्पृथिव्यादिन्यस्तत्त्वमस्ति दृष्टहान्यदृष्टकल्पनासम्भवादिति / प्रत्यक्षमेव चैकं प्रमाणमिति लोकायतमतसमासः // मीमांसकानां पुनरेष मार्गः / यदुत वेदपाठानन्तरं धर्मजिज्ञासा कर्तव्या / यतश्चैवं ततस्तस्य निमित्तपरीक्षा / निमित्तं च चोदना / यत उत। चोदनालक्षणोऽर्थो धर्मः / चोदना च For Private and Personal Use Only