SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / यदुत पञ्चविंशतितत्त्वपरिज्ञानान्निश्रेयसाधिगमः / तत्र चयो गुणाः सत्त्वं रजस्तमश्च / तत्र प्रसादलाघवप्रसवानभिष्वङ्गादेषप्रतीतयः कार्य सत्त्वस्य / शोषतापभेदस्तम्भोदेगापद्वेषाः कार्य रजसः / वरणमादनबीभत्सदैन्यगौरवाणि तमसः कार्य / ततः सत्त्वरजस्तममां साम्यावस्था प्रकृतिः / मैव प्रधानमित्युच्यते / प्रकृतेश्च महानाविभवति बुद्धिरित्यर्थः / बुद्धेश्वाहङ्कारः / ततोऽहङ्कारादेकादशेन्द्रियाणि / तद्यथा / पञ्च बुद्धौन्द्रियाणि स्पर्शनरमनप्राणचचुःश्रोत्ररूपाणि पञ्च कर्मेन्द्रियाणि वाक्पाणिपादपायपस्थलक्षणानि मनश्चाविर्भवति / तथा तत एवाहङ्कारात्तमोबडलात्पञ्च तन्माचाणि स्पर्शरसरूपगन्धशब्दलक्षणान्याविर्भवन्ति। तेभ्यश्च पृथिव्यादौनि पञ्च महाभूतानि / तदेषा चतुर्विंशतितत्त्वात्मिका प्रकृतिः / तथा परः पुरुषश्चैतन्यखरूपः / म चानेको जन्ममरणकरणानां नियमदर्शनाद्धर्मादिषु प्रवृत्तिनानात्वाञ्च / प्रकृतिपुरुषयोश्चोपभोगार्थः संयोगः पंवन्धयोरिव / उपभोगश्च शब्दाद्युपस्तम्भो गुणपुरुषान्तरोपभोगश्च / प्रत्यक्षानुमानागमाः प्रमाणनौति / सांख्यदर्शनसंक्षेपार्थः // ___ बौद्धैः पुनर्भद्र परिकल्पितेयं निर्वृतिनगरौवर्तनौ। यदुत द्वादशायतननि। तद्यथा। पञ्चेन्द्रियाणि पञ्च शब्दादयो मनो धर्मायतनं च / धर्मास्तु सुखादयो विज्ञेयाः / प्रत्यक्षानुमाने हे एव प्रमाणे इति बौद्धदर्शनसमामार्थः / / अथ वा वैभाषिकसौत्रान्तिकयोगाचारमध्यमकभेदाचतुर्विधा बौद्धा भवन्ति / तत्र वैभाषिकमतमिदं। यदुत क्षणिक वस्तु / तद्यथा। जातिर्जनयति स्थितिः स्थापयति जरा जर्जरयति विनाशी For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy