________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 666 उपमितिभवप्रपञ्चा कथा / शिष्याचार्ययोः पक्षप्रतिपक्षपरिग्रहेणाभ्यासख्यापनाय वादकथा / विजिगीषुणा सार्धं छलजातिनिग्रहस्थानमाधनोपालम्भो जल्पः / स एव प्रतिपक्षस्थापनाहौनो वितण्डा / अनैकान्तिकादयो हेत्वाभामाः / नवकम्बलो देवदत्त इत्यादि छलं / दूषणाभामास्तु जातयः। निग्रहस्थानानि पराजयवस्तुनि। तद्यथा। प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्यास: हेत्वन्तरं अर्थान्तरं निरर्थकं अविज्ञातार्थमपार्थक अप्राप्तकालं न्यूनमधिकं पुनरुक्तं अननुभाषणं प्रप्रतिज्ञानं अप्रतिभा कथाविक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगः अपसिद्धान्तो हेत्वाभासाश्चेति निग्रहस्थानानि। तदेते प्रमाणादयः षोडश पदार्था नैयायिकदर्शनसमासः // वैशेषिकैः पुनरयं वत्स परिकल्पितो निर्वृतिनगरीगमनमार्गः / यदुत द्रव्यगुणकर्मसामान्यविशेषसमवायानां षला पदार्थानां तत्त्वपरिज्ञानान्निश्रेयसाधिगमः / मा हि निर्वृतिनिःश्रेयसरूपा / तत्र पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति नव द्रव्याणि / रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्कसंयोगविभागपरत्वापरत्वबुद्धिसुखदुःखेच्छादेवप्रयत्नधर्माधर्मसंस्कारगुरुत्वद्रवत्वस्नेहवेगशब्दाः पञ्चविंशतिर्गुणाः / उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति पञ्च कर्माणि / सामान्यं द्विविधं परमपरं च / तत्र परं मत्तालक्षणं अपरं द्रव्यत्वादौति। नित्यद्रव्यवृत्तयोऽन्या विशेषाः / अयुतसिद्धानामाधाराधेयभूतानां यः सम्बन्ध दहप्रत्ययहेतुः समवायः / लैङ्गिकप्रत्यक्षे दे एव प्रमाणे / इति वैशेषिकदर्शनसमासार्थः / सांख्यैस्तु वत्म निजबुद्ध्या परिकल्पितोऽयं निर्वृतिनगर्याः पन्थाः / For Private and Personal Use Only