________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 665 तत्र नैयायिकैस्तावदेष कल्पितो निवृतिमार्गः / यदुत प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वपरिज्ञानान्निश्रेयसाधिगमः / तत्रार्थोपलम्भहेतुः प्रमाणं / तच्चतर्धा / तद्यथा / प्रत्यक्षानुमानोप'मानशब्दाः प्रमाणानि / तत्र प्रत्यक्षमिन्द्रियार्थमन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षं। तत्पूर्वक त्रिविधमनुमानं / तद्यथा। पूर्ववच्छेषवत्सामान्यतो दृष्टं च / तत्र पूर्ववत्कारणात्कार्यानुमानं यथा मेघोचतेभविष्यति वृष्टिरिति / शेषवत्कात्किारणानुमानं यथा विशिष्टान्नदीपूरदर्शनादुपरि वृष्टो देव इति / सामान्यतोदृष्टं नाम यथा देवदत्तादौ गतिपूर्विका देशान्तरप्राप्तिमुपलभ्य दिनकरेऽपि मा गतिपूर्विकैद समधिगम्यते / प्रसिद्धसाधात्माध्यमाधनमुपमानं यथा गौस्तथा गवय इति / श्राप्तोपदेशः शब्द आगम इत्यर्थः / तदेवमिदं चतुर्विधं प्रमाणमभिहितं / तथा शरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयं / किं स्यादित्यनवधारणात्मकः प्रत्ययः संशयः किमयं स्थाणुः स्यादुत पुरुष इति / येन प्रयुक्तः प्रवर्तते तत्प्रयोजनं / अविप्रतिपत्तिविषयापनो दृष्टान्तः / सिद्धान्तश्चतुर्विधः / तद्यथा / सर्वतन्त्र सिद्धान्तः प्रतितन्त्रमिद्धान्तः अधिकरणसिद्धान्तः अभ्युपगमसिद्धान्तश्चेति। प्रतिज्ञाहेवदाहरणोपनयनिगमनान्यवयवाः। संशयादूचं भवितव्यताप्रत्ययस्तर्कः यथा भवितव्यमत्र स्थाणुना पुरुषेण वेति / संशयताभ्यामूज़ निश्चयतः प्रत्ययो निर्णयः यथा पुरुष एवायं स्थाणुरेव वा / तिस्रः कथा वादजल्पवितण्डाः / तत्र 81 For Private and Personal Use Only