________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / प्रकर्षणोक्तं / अधःस्थितेषु बाध्यन्ते पुरेषु यदमौ जनाः / शिखरस्थे न बाध्यन्ते माम किं तत्र कारणम् // विमर्शनोतं / अस्त्यत्र निर्वृति के नगरौ सुमनोहरा। मा च भुक्तरतिक्रान्ता महामोहादिभूभुजाम् // निईन्दानन्दसंपूर्ण सततं निरुपद्रवा / एभिश्चाकर्णिता सर्वैः सा लोकैः पुरवामिभिः // ततो लोकायतं मुका ये शेषपुरवासिनः / नगरौं गन्तुमिच्छन्ति तामेते वत्म नितिम् // एते च सर्व तां गन्तुमन्तरङ्गैर्महापथैः / स्वकल्पितैः प्रवाञ्छन्ति परस्परविरोधिभिः // ततश्च / श्रमौभिर्वत्म भूमिष्ठेर्य मार्गाः परिकल्पिताः / निवृतेः प्रापकास्ते हि न घटन्ते सुयुतितः // विवेकपर्वतोत्तुङ्गशिखरस्थितसत्पुरे। वसनियः पुनदृष्टः सन्मार्गाऽतिमनोहरः // म निर्दतिं नयत्येव लोकं नास्यत्र संशयः / पक्षपातविमुक्तेन मया तेनेदमुच्यते // यथामौ बाधिता लोका येऽधःस्थपुरवर्तिनः / मिथ्यादर्शनसंज्ञेन न गिरिस्थे महापुरे // यतः / For Private and Personal Use Only