________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 662 उपमितिभवप्रपञ्चा कथा / षडत्र यानि श्रूयन्ते मण्डले लोकवार्तया / दर्शनानि किमेतानि तान्याख्यातानि मे त्वया // विमर्शनोदितं वत्स कथ्यते ते परिस्फुटम् / एतानि पञ्च तान्येव -मीमांसकपुरं विना // अर्वाक्कालिकमेतद्धि मौमांसकपुरं मतम् / तेन दर्शनसंख्यायामेतल्लोकैर्न गण्यते // तथा हि / जैमिनिर्वदरतार्थं दूषणोद्धारणेच्छया / चकार किल मौमांसां दृष्ट्वा तौर्थिकविप्लवम् // तस्मादेतानि पञ्चैव मौमांसकपुरं विना / लोकैदर्शनसंख्यायां गण्यन्ते नात्र संशयः / प्रकर्षः प्राह यद्येवं ततो ब्रूहि क वर्तते / तत्पुरं माम यल्लोकै!यते षष्ठदर्शनम् // विमर्शनाभिहितं। यदिदं दृश्यतेऽत्रैव विवेकवरपर्वते / निर्मलं शिखरं तङ्गमप्रमत्तत्वनामकम् // विस्तीर्णमिदमत्यर्थमचैव च निवेशितम् / पुरं लोकोत्तरं वत्स तज्जैनमभिधीयते // तस्य ते कथयिष्यामि ये गुणाः शेषजित्वराः / तथापि लोकरूढ्यैव षष्ठं हि तदुदाहतम् // अन्यच्च तत्र ये लोकास्तेषामेष महत्तमः / न बाधकः प्रकृत्यैव मिथ्यादर्शननामकः // For Private and Personal Use Only