________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 661 अवान्तरपुराणी ह षडवान्तरमण्डले // एतानि वत्म लोकानां तेषां स्थानानि लक्षय / मिथ्यादर्शनसंज्ञेन ये वशीकृतचेतसः // प्रकर्षणोक्तं / माम किन्नामकान्येतानि पुराणि किमभिधाना वैतेषु लोकाः प्रतिवसन्ति / विमर्शनोक्तं / वत्स समाकर्णय / एकमत्र पुरे तावन्नैयायिकमितीरितम् / नैयायिकाच गोयन्ते ते जना यात्र संस्थिताः // अन्यवैशेषिकं नाम पुरमचाभिधीयते / वैशेषिकाश्च ते लोका येऽस्य मध्ये व्यवस्थिताः // तथापरं जनैः माख्यं पुरमत्र प्रकाशितम् / मांख्याश्च ते विनिर्दिष्टा लोका येऽत्र वसन्ति भोः // दहापरं पुनर्बोद्धं पुरमाख्यायते जनः / प्रसिद्धा बौद्धसंज्ञाश्च ते जना येऽस्य मध्यगाः // मीमांसकपुरं नाम तथान्यत्परिकीर्तितम् / मीमांसकाच गोयन्ते ते लोका येऽत्र संस्थिताः // लोकायतमिति प्रोक्तं पुरमत्र तथापरम् / बार्हस्पत्याश्च ते लोका ये वास्तव्याः पुरेऽत्र भोः // तदेतेषु पुरेपूच्चैर्यऽमी लोकाः प्रकीर्तिताः / ते विशेषेण कुर्वन्ति मिथ्यादर्शनशासनम् // यच्च प्रोक्तं मया पूर्व सभार्यस्य विजृम्भितम् / तस्य सवें तदेतेषु लोकेषु ननु दृश्यते // प्रकर्षणोतं / For Private and Personal Use Only