________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / ततोऽमौ यावदेतेषां प्रभवो वत्स भूभुजाम् / भवचक्रे न निर्विलास्तावल्लोकाः कदाचन // प्रकर्षः प्राह यद्येवं ततोऽमौषां दुरात्मनाम् / सदोन्मत्तकतुल्यानां किमस्माकं विचिन्तया // केवलं माम सर्वेषां महामोहादिभूभुजाम् / दर्शितं भवचक्रेऽत्र मम वौयं त्वया स्फुटम् // यस्वसौ वर्णितः पूर्व महामोहमहत्तमः / वष्टः कुदृष्टिपत्नीको मिथ्यादर्शननामकः // तेन यद्भवचक्रेत्र स्ववीर्यण विजृम्भितम् / तन्मेऽद्यापि त्वयाख्यातं नापि संदर्भितं मम // ततोऽहं द्रष्टुमिच्छामि श्रोतुं च गुणरूपतः / तद्वशीभूतलोकानां चरितं माम साम्प्रतम् // विमर्शः प्राह नगरं समस्तमिदमञ्जमा / प्रायेण वर्तते तस्य व नास्त्यत्र संशयः // तथा हि / यदिदं वर्णितं तेऽत्र मया पुरचतुष्टयम् / तत्र सर्वत्र विद्यन्ते लोकास्तदशवर्तिनः // तथापि ये विशेषेण तस्याज्ञाकारिणो जनाः / तेषां स्थानानि ते भद्र दर्शयामि परिस्फुटम् // ततश्चोर्ध्वं विशेषेण कृत्वासौ दक्षिणं करम् / तर्जन्या दर्शयत्येवं तानि स्थानानि यत्नतः // अमूनि मानवावासे दृश्यन्ते यानि सुन्दर / For Private and Personal Use Only