SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। विमर्शनोदितं वत्म निर्वेदो नास्ति देहिनाम् / अत्रापि वसतां नित्यं तत्राकर्णय कारणम् // य एते कथितास्तुभ्यं महामोहादिभूभुजः / अन्तरङ्गाः स्ववौर्यण वशीकृतजगत्त्रयाः // एतेषां कौशलं किंचिदपूर्व जनमोहने / विद्यते तदशेनैते निर्विद्यन्ते न नागराः // एते हि चरटप्राया दुःखदाः शत्रवोऽतुलाः / महामोहादयो वत्स भवचक्रनिवासिनाम् // तथापि प्रतिभासन्ते तेषां मोहितचेतसाम् / यथैते सुहृदोऽस्माकं वत्सलाः सुखहेतवः // इदं च नगरं वत्स दुःखसङ्घातपूरितम् / तथाप्यत्र स्थिता लोका मन्यन्ते सुखसागरम् // निश्चिन्ता निर्गमोपाये वसनेनात्र मोदिताः / निवसन्ति सदा तष्टा महामोहादिबान्धवैः / / योऽपि निर्गमनोपायं भवचक्रात्यभाषते / तस्याप्येतेऽपि रुय्यन्ति यथैष सुखवञ्चकः / / तच्च तच्च प्रकुर्वन्ति महायत्नेन सर्वथा / येनात्रैव भवत्येषां वामः पापेन कर्मणा // तदेवं निजवीर्येण महामोहादिशभिः / क्रोडौकता न जानन्ति किंचिदेते तपस्विनः // शब्दादिसुखसम्भोगं तुच्छ दुःखात्मकं सदा / एते मनसि मन्यन्ते यथेदमम्मृतोपमम् // For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy