________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 658 उपमितिभवप्रपच्चा कथा / महानादरो विधेयोऽपि त्वेकान्तिकात्यन्तिकं तत्साधनमन्वेषणीयं / सर्वथा मदनुष्ठानोपायेन तत्र यातव्यं यत्रेते जरारुजादयः सर्वे ऽप्युपद्रवा न प्रभवन्ति / प्रकर्षः प्राह / माम कुत्र पुनरेते न प्रभवन्ति / विमर्शनोतं / अस्ति सन्नगरी रम्या निवृति म विश्रुता / अनन्तानन्दसन्दोहपरिपूर्णा निरत्यया // तस्यां न प्रभवन्येव संस्थितानामुपद्रवाः / जरारुजाद्याः मा यस्मात्मापद्ववर्जिता // तस्यां च गन्तुकामेन सेव्याः सौर्यवृद्धये / पुरुषेण मदा तत्त्वबोधश्रद्धानस क्रियाः // ततो विद्धवीर्याणां तस्या मार्गेऽपि तिष्ठताम् / तनूभवन्ति दुःखानि वर्धते सुखपद्धतिः // ददं तु नगरं भद्र भवचक्र चतुर्विधम् / सदैवामुक्तमेताभिस्तथान्यैर्भूर्युपद्रवैः // को वात्र गणयेत्तात क्षुद्रोपद्रवकारिणाम् / पुरे संख्यानमप्येषां स्वस्थानमिदमौदृशम् // प्रकर्षः प्राह मामेदं नगरं ननु सर्वथा / एवं कथयतो दुःखबहुलं कथितं त्वया // माधु माधूदितं वत्स बुद्धं वत्सेन भाषितम् / विज्ञातं भवचक्रस्य सारमित्याह मातुलः / / प्रकर्षः प्राह यद्येवं ततोऽत्र नगरे जनाः / वसन्तः किं सुनिर्विलाः किं वा नेति निवेद्यताम् / / For Private and Personal Use Only