________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / व्यवहारतस्तु तत्प्रवृत्ति को वारयति / पुरुषेण हि सर्वत्र पुरुषापराधमल: मदनुष्ठाननिर्मलजलेन क्षालनीयः / तदर्थं हि तत्प्रवृत्तिः / यतो नाकलयत्यसौ तदा भाविकार्यपरिणामं ततो व्यवहारतः सर्वहेयोपादेयहानोपादानसाधनं समाचरत्येव। किं च / चिन्तितं चानेन / यदुताहं न प्रवत तथाप्यमावप्रवर्तमानो नामित लभते / यतः कर्मपरिणामादिकारणमामय्या वेतालाविष्ट इव हठात्प्रवर्तत एव / न चाकिंचित्करः पुरुषः / किं तर्हि स एव प्रधानः / तदुपकरणत्वात्कर्मपरिणामादीनां / न च पादासारिका श्रेयस्करो। व्यवहारतः पुरुष प्रवृत्तेहिताहितनिर्वर्तनापवर्तनक्षमत्वात्। निश्चयतस्तु निःशेषकारणकलापपरिणाममाध्यत्वात् कार्याणां / अन्यथा पूर्वमाकलिते पुरुषेण वैपरीत्येन तु परिणते पश्चात्प्रयोजनेन विधेयो न हर्षविषादौ ममालम्बनीयो निश्चयाभिप्रायो यथेत्यमेवानेन विधातव्यमिति भावनया विधेयो मध्यस्थभावः / न चैतचिन्तनौयं / यद्येवमहमकरिव्यं ततो नेत्थमभविष्यदिति / यतस्तथावश्यंभाविनः कार्यस्य कुतोऽन्यथाकरणं / नियता हि निश्चयाकूतेन नियतकारणमामग्रौजन्या च स कन्नकालं तथैवानन्तकेवलिज्ञानगोचरीभूता च समस्तापि जगति बहिरङ्गान्तरङ्गकार्यपर्यायमाला / मा यया परिपाट्या व्यवस्थिता यैश्च कारणैराविर्भावनौया तयैव परिपाच्या तान्येव च कारणान्यासाचाविति / कुतस्तम्यामन्यथाभावः / अतो ऽतौतचिन्ता मोहविलसितमेव। व्यवहारतोऽपि हितावाप्तये ऽहित-- निषेधाय च प्रवर्तमानेन पुरुषेण सुपर्यालोचितकारिणा नानैकान्तिकानात्यन्तिके तत्साधने भेषजमन्त्रतन्त्ररमायनदाइनोत्यादौ For Private and Personal Use Only